________________
सूत्र २१ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१०५ टी.--एते पञ्चेत्यादि । एत इति सूत्रोक्ताः पञ्चैति पञ्चैव, मिथ्योपदेशादय इति नामग्राहमाचष्टे । स्थूलमृषापरित्यागे न असत्यं वक्तव्यमित्यत्र सत्यवचनस्थातिचारा भवन्ति । तत्र मिथ्येत्यादिषु पञ्चस्वतीचारेपु मिथ्योपदेशस्तावत् । नामशब्दः क्रमावद्योतकः। प्रमत्तस्य वचनं परपीडाजननम्-वाह्यन्तां खरोष्ट्राः हन्यन्तां दस्यव इति, यथा अर्थः स्थितस्तथा वचनोपदेशः साधुः, तद्विपरीतस्त्वयथार्थवचनोपदेशः यथा परेण पृष्टः सन्देहापनेन वथोपदेश इति । विवादेष्वित्यादि । विवाद:-कलहः तत्रान्यत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसन्धानं-छलनम् । आदिशब्दात् फाणितकधूतग्रहणम् । एवमादिः-एवंप्रकारः सवे एव मिथ्योपदेशोऽवसेयः ।।
भा०-रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्त हास्यक्रीडासङ्गादिभिः रहस्येनाभिशंसनम् ॥
टी०-रहस्येत्यादि । रहस्येन कर्मणाऽभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणद्वारेण-यदि वृद्धा स्त्री ततस्तस्यै कथयति-अयं तव भर्ता कुमार्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तस्तथाऽयं खरकामो मृदुकाम इति वा परिहसति । तथा स्त्रियमभ्याख्याति भर्तुः पुर:-पत्नी ते गर्हयत्येवमयं मां रहसि कामगर्दभः खलीकरोतीत्यादि । अन्यस्य वेति । दम्पतीव्यतिरिक्तस्य वैकैकस्य पुंसः स्त्रिया वा तत्कालयोग्यम् । रागसंयुक्तमिति दम्पत्यारन्यस्य वा येन रागः-प्रहर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेण कर्मणाऽभिशंसनमिति । हास्येत्यादि । अभ्याख्याताऽपि परिहासक्रीडानुबन्धात् तादृशं भाषते, नाभिनिवेशेन । हास्य-परिहासः सैव क्रीडा, आसक्तिः आसङ्ग:-अनुबन्धः। आदिशब्दः प्रकारवचनः । हास्यक्रीडाप्रकारैः, अथवा हास्यप्रकारैः क्रीडाप्रकारैवेति पृथगभिसम्बन्धः॥
__ भा०--कूटलेखक्रिया लोकमतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ।। २१ ॥
टी-कूटलेखक्रिया लोकप्रतीतेति अत्यन्तप्रसिद्धा सुज्ञाना, मुद्राक्षरादिविन्यासः कूटतुल्य इति । अत्रापि यत् तद् भूर्जत्वगादिन्यस्तं च वचनं तत् कूटलेखक्रियाशब्देनोच्यत इति सत्यव्रतातिचारः । न्यासापहार इत्यादि । गोपायनाय स्वद्रव्यार्पणमन्यस्य न्यासः तस्यापहारः--अपलापः सुश्लिष्टवचनेन । एतदेव स्पष्टयति-विस्मरणकृतपरनिक्षेपग्रहणं विस्मरणेन कृतं परनिक्षेपस्य ग्रहणम्-येन निक्षिप्तानि पञ्च शतानि, शतसङ्ख्या विस्मृता, सा च,
१ • योतनार्थः' इति -पाठः । २ 'लोके प्रतीता' इति क-ग-पाठः।। ' भेदैः' इति ग-पाठः । .भेदेखते ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org