SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ७ माटकशकटाघाजीवः परित्याज्य एवान्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां यथोचितभारादपि किश्चिन्यूनभारारोपणं तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणम् । द्विपदानि तु यं मारमात्मनोत्क्षेप्तुमवतारयितुं च शक्नुवन्त्यक्लेशेन तावत आरोपेणापदेशः । तेषामेव पानपाननिरोध इति पञ्चमोऽतिचारः। तेषामिति द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव । सप्रयोजनं तु सापेक्षं कुर्यात् । दुर्विनीतानामपत्यादीनां मन्दतीक्ष्णाशयानासुंदन्यतां ज्वराद्यभिभूतानां चान्नपानं निरुणद्धि । स्वभोजनवेलायां तु ज्वरितादेरन्यान् नियमत एव तावद् भोजयित्वा स्वयं भुञ्जीतेत्युपदेशः। अहिंसाव्रतस्यातिचारा भवन्तीत्यव्यतिकरं दर्शयति । समासतोऽणुव्रती सर्वमेव बन्धादि प्रदर्शितमनुकमाया जहदवश्यंभाविनि प्रयोजनेऽनुतिष्ठभातिचरति स्थूलो प्राणातिपातविरतिमिति ॥ २० ॥ स्थूलमृषावादविरतेरतिचाराभिधित्सयेदमाहस्थूलमृषावादविरम- सूत्रम्-मिथ्योपदेश-रहस्याभ्याख्यान-कूटलेखणमतस्यातीचाराः पञ्च क्रिया-न्यासापहार-साकारमन्त्रभेदाः॥७-२१ ॥ टी-मिथ्योपदेशः-असदुपदेशः परेणान्यस्यातिर्सन्धानं स्वयं वाऽतिसन्धानमन्यस्येति । रहः-एकान्तस्तत्र भवं रहस्य रहस्येनाभ्याख्यानम्-अभिशंसनमसदध्यारोपणं रहस्याभ्याख्यानम् । कूटं-असद्भूतं लिख्यत इति लेखः करणं क्रिया कूटलेखक्रिया अन्यमुद्राक्षरविम्बस्वरूपलेखकरणमिति । न्यस्यते-निक्षिप्यत इति न्यासः रूपकाद्यर्पणं तस्यापहारःअपलापः, योऽत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः सन विवक्षितः, तस्यादत्तादानविषयत्वात, यत् तत्र वचनमपलापकं येन करणभूतेन न्यासोऽपहियते-अपलप्यते तद् वचनं न्यासापहारः । आकारोऽङ्गुलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती, तेन तादृशा आकारेण सहाविनाभूतो यो मन्त्रो-गूढः पराभिप्रायस्तमुपलभ्य सहाकारं मन्त्रमसूययाऽऽवि. करोत्येष साकारमन्त्रभेदः प्रकाशनम् । मिथ्योपदेशादयः कृतद्वन्द्वाः पश्चातिचाराः स्थूलानृतविरतेरिति । सम्प्रति भाष्यमनुस्रियते भा०-एते पश्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तषचनमयथार्थवचनोपदेशो विवादेष्वतिसन्धानोपदेश इत्येवमादिः॥ 'पणादेशः' इति उ-पाठः। २'मतीक्ष्ण ' इति -पाउः। 'सम्मापन' इति -पाठः। ५.मिशमनमध्यारोपण' इति स-पाठः। ३' मौदन्यता' इति पाठ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy