SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सूत्र २० ] स्वोपज्ञभाष्य-टीकालङ्कृतम् १०३ टी०-तद्यथेत्यनेन सम्बन्धमाचष्टे । यथा तदेतदतिचौरजातं क्रमेण व्रतादिषु सम्बध्यते संप्रति तथोच्यते । प्राक् तावत् स्थूलप्राणातिपातव्रतमुक्तं तस्यामी पञ्चातिचारा भवन्तीति निर्दिशतिस्थूलप्राणातिपातविर- सूत्रम्-बन्ध-वध-च्छविच्छेदातिभारारोपणामणव्रतस्यातीचाराः ऽन्नपाननिरोधाः॥७-२०॥ टी-तत्र बन्धनं बन्धः-संयमनं रज्जुदामकादिभिः, हननं वधः-ताडनं कशादिभिः, छविः-शरीरं त्वग् वा तच्छेदः-पाटनं द्विधाकरणं, भरणं भार:-पूरणं अतीव-बाढं सुष्टु भारोऽतिभारस्तस्यारोपणं-स्कन्धपृष्ठादिस्थापनमतिभारासेपणम्, अन्नं अशनादि, शानं पेयमुदकादि तयोरदानं निरोधः। सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतेरतीचाराः ॥ भा०-सस्थावराणां जीवानां बन्धवधौ त्वकछेदः काष्ठादीनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चनिपाननिरोधः अहिंसावतस्यातिचारा भवन्ति ॥ २० ॥ टी०-ब्रसस्थावराणामित्यादि । त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपञ्चेन्द्रियाः । तिष्ठन्तीति स्थावराः-स्थानशीला वृक्षादयो यथासम्भवमायोज्याः । द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेषां प्रसस्थावराणां जीवानां बन्धवधी, तत्र बन्धः शङ्खपिपीलिकादीनामपि सम्भवति । स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सगतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्यबद्धान्येवाऽऽसते, असम्भवात् तादृशामन्यत्र बन्धः सप्रयोजनः सोऽपि सापेक्षः, दयावता नातिगाढमूढप्रन्थिः कार्यो दुर्विनीतपुत्रकदासीदाससेवकादीनां गोमहिषीतुरगकरिकरभादीनां वा। वधोऽप्येवमेव द्विपदादिविषयो विकल्प्यः। प्राक् तावद् भीतपरिषक्तेनैव भुवितव्यमगारिणा। समुत्पभप्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कशादिभिर्वोऽपेक्षया कर्णवलनचपेटादिभिश्च साधयेत् । तथा निष्प्रयोजनः छविच्छेदः परिहार्य एव, तदाह-त्वक्छेदः काष्ठादीनामिति । काष्ठशब्देन वृक्षपरिग्रहः, वृक्ष आदिरेषामिति, आदिग्रहणाद् भूमितेजःकरकद्विपदचतुपदपरिग्रहः । सप्रयोजनस्तु सापेक्षः कणेपाटनाङ्कनादिरङ्गुलिसंदंशकश्रवणनासिकाच्छेदो वा मनाग भयजननाय तस्करादीनामिति । पुरुषेत्यादि। पुरुषादयः कृतद्वन्द्वाः। आदिप्रहणात् खरकरभमेषच्छागपरिग्रहः। यथासम्भवं वा, एषामतिभारारोपणमतिचारः, उत्सर्गतो 'चारक्रमेण ' इति ड-पाठः। २ 'व्युत्सर्ग ' इति ग-पाठः। 'क्षयोपेक्षया' इति हु-पाठः। ३ ' सापेक्षात् ' इति -पाठः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy