SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०२ तत्त्वार्थाधिगमसूत्रम् { अभ्यायः . अनभिगृहीता तु भोगसुखपराणामास्तां निःश्रेयससुखं, इदमेव पर्याप्तं यत् प्रकृष्टैश्वर्यामिजनादिषु नीरोगतादियु के जन्मेति । सर्वदेवतासु सर्वपापण्डिषु च तुल्यतामौदासीन्यं भावयतीति । एतत्सम्बावेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतिचार इति । एषामुक्तलक्षणानां क्रियाऽक्रियावादिनामज्ञानिकानां च प्रशंसा स्तुतिः अभिष्टवः पुण्यभाज एते सुलब्धमेभिर्जन्म सत्यसन्धाः सन्मार्गदर्शननिपुणा इत्यादिः, संस्तवः-तैः सहैकत्र संवासात् परिचयः परस्परालापादिजनितः। तथा हि एकत्र वासे तत्प्रक्रियाश्रवणात् तत्क्रियादर्शनाच असंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः । अत एव भगवद्भिः पार्श्वस्थादियथाच्छन्दिकैरपि सार्ध निषिद्धमेका वसनमेकरात्रमपि सम्यग्दृष्टरुत्सर्गात् । तस्मादतीचासवेतौ मलीमसताहेतू तत्पशंसासंस्तवौ सम्यग्दृष्टेभ्रंशहेतू वा । ___ भा०—(अत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ?। अनोच्यते-) टी.-प्रसिद्धार्थवशादुपजातसन्देहः कश्चिदत्राह-प्रशंसासंस्तवयोः कः प्रतिविशेष इति ? । अत्रोच्यते-एवं मन्यते "शंसु स्तुतौ" ( पा० धा० ७२८ )। प्रशंसनं प्रशंसास्तुतिः। "ष्टुञ् स्तुती" (पा० धा०१०४३) । संस्तवः सम्यक्रस्तुतिरेव । अतस्तुल्यार्थत्वात् प्रमयति-का प्रतिविशेष इति । अत्रोच्यते ___ भा०-ज्ञानदर्शनगुणप्रकर्षोद्भावनं भावतः प्रशंसा। संस्तवस्तु सोपर्व मिरुपधं च भूतगुणवचनमिति ॥ १८ ॥ टी०-ज्ञानेत्यादि । ज्ञानम्-आगमः ॥१८॥ सूत्रम्-व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥७-१९ ॥ भा०-व्रतेषु पञ्चसु शीलेषु च सप्तसु पश्च पक्षातीचारा भवन्ति । यथाक्रममिति ऊर्ध्व वक्ष्यामः ॥ १९ ॥ टी.-घतेष्वित्यादि सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि प्रतानि तेषु विषयभूतेषु । पञ्चस्वित्यन्यूनानतिरिक्तेषु शीलेषु च सप्तस्विति । पशब्दः समुथायकः । सप्तैव शीलानि तेषु च । पञ्च पञ्चेति नियमवचनम् । प्रतिव्रतं प्रतिशीलं पश्चातिचारा भवन्ति, न चत्वारः षड वा । भतिचारपरिगणनं च सुखपरिहारार्थम् । यथाक्रममिति व्यतिफरनिवृत्त्यर्थम् । अन्यथा बन्धवधादयः स्थूलमृषावादनिवृत्तेरप्यतीचाराः स्युः । एवमितरेऽपि ध्यतिकरण प्राप्नुयुः। ऊवं वक्ष्याम इति नियमप्रदर्षनं यदुपरिष्टादतीचारजातमभिधास्यामस्तदुक्तेषु व्रतादिषु यथाक्रममिति ॥ १९॥ भा०तद्यथा १ धनुरिहान्तर्गतोऽयं पाटो घ-पुस्तक एव। २ 'भूताभूतगुण' इति घ-पाठः । ३ अयं सूत्र-भाष्य-पाठो नोपलभ्यते कतमस्यामपि प्रत्याम् , इदमवतरणं तु घ-पुस्तकाधारेण छतं मया। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy