________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ 'अधुना निक्षेपमार्गणाकाले ब्रवीति-न सुष्ठु स्मरामि किं चत्वारि शतान्यर्पितानि तव तदा अथ पञ्च शतानीति । यदर्पितं तद् देहीति, निक्षेपकस्य गोपायिता प्रत्याह--चत्वार्येवेति । एवं 'परेण निक्षिप्तस्य परविस्मरणकृतस्य शतस्य ग्रहणं येन करणतामापन्नेन क्रियते स सत्यव्रतातिचार इति । साकारमन्त्रभेद इति । आकारः शरीरावयवसमवायिनी क्रियाऽन्तर्गवाकूतमूचिका तेन विशिष्टेनाकारेण सहाविनाभूतो योऽभिप्रायः स साकारमन्त्रस्तस्य भेदः-प्रका. शनम् । एतदुक्तं भवति-अनधिकृतसन्निधौ चेष्टाविशेषैः स्वाकूतप्रकाशनमाकारः। तमेव स्पष्टतरमुदाहरति-पैशुन्यं गुह्यमन्त्रभेदश्चेति । प्रीति शूनयतीति पिशुनस्तद्भावः पैशुन्यम्, द्वयोः प्रीतो सत्यामेकस्याकारैरुपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यतीति । गुह्यं-गृहनीयं न सर्वस्मै यत् कथनीयम् । मन्त्रणं मन्त्रो-गुप्तभाषणं राजादिकार्यसम्बन्धस्तस्य भेदः-प्रख्यापनम् । एवमेतत् सत्यवतमप्यस्तातिचारं सम्यगनुपालनीयमिति ॥२१॥ स्थूलादत्तादानविरतेरप्यमी पञ्चातिचाराः परिहार्याः
सूत्रम्-स्तेनप्रयोग-तदाहतादान-विरुद्धराज्यातिक्रमस्थूलादत्तादानविरमणवतस्यातिचाराः पञ्च हीनाधिकमानोन्मान-प्रतिरूपकव्यवहाराः ॥७-२२॥
टी-स्तेनाः-चौरास्तान् 'प्रयुक्ते-हरत यूयं इति हरणक्रियायां प्रेरणमभ्यनुज्ञानं वा प्रयोगः, अथवा परस्वादानोपकरणानि कर्तरीघर्घरकादीनि । तदाहृतादानमिति तच्छब्देन स्तेनपरामर्शः तैराहृतम्-आनीतं कनकवस्त्रादि तस्यादानं-ग्रहणं (अल्प)मूल्येने मुधिकया पा। विरुद्धराज्यातिक्रम इति । विरुद्धयोनृपयोः राज्यं तस्यातिक्रमः- अतिलचनमाक्रमणम्, अन्यतरराज्यनिवासिन इतरस्य राज्यं प्रविशन्तीतरराज्यनिवासिनो वाऽन्यतरराज्यमभिगछन्तीति विरुद्धराज्यातिक्रमः । स चानेकप्रत्यवायः। हीनाधिकमानोन्मानमिति । हीनंन्युनं अधिकं-अतिरिक्तं मानं उन्मानं वा। तत्र मानं-कुडवादि। उन्मानं-तुलादि। हीनं मानमुन्मानं वा अन्यदानकाले करोति । स्वयं पुनगुननधिकं करोति । प्रतिरूपकव्यवहार इति । प्रतिरूपकः-तादृशः तस्य विविधमवहरणं व्यवहारः-प्रक्षेपः प्रतिरूपकप्रक्षेप इतियावत् । यद् यत्र घटते ब्रीद्यादि तैलादिषु पेलजिवसादि तत तत्र प्रक्षिप्य विक्रीणीत इति । स्तनप्रयोगादयः कृतद्वन्द्वाः पश्चास्तेयाणुव्रतस्यातिचारा बोद्धव्याः ॥
सम्प्रति भाष्यमनुस्रियते
भा०-एते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिअयोगः ॥ स्तेनैराहतद्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहृतादानम् ॥
१ मार्गणकाले' इति हु-पाठः । २'कूटसूचिका' इति ङ-पाठः। ३.अन्यथाकृतसन्निधौ चेष्टाधिशेषः' इति पाठः नाधिकया' इति हु-पाठः। ५ 'पलनादि ''पलब्यादि इति पाठौ। तस्य द्रव्यस्य' इति घ-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org