________________
१०७
सूत्र २२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-एते इत्यादि गतार्थम् । तत्रेत्यादि। तत्र-तेष्वतीचारेषु । स्तेनप्रयोगस्तावदयम्-स्तेनेषु-तस्करेषु सम्भवति हिरण्याद्यर्थ प्रयोगो हिरण्यादिप्रयोगः हिरण्यं रजतं घटिताघटितरूपम् । आदिशब्दात कनकं च । घर्घरका याभिन्धि छित्त्वा गृह्णातीति । तथा खात्रखननकादि, एवं विधमुपकरणं नाणुव्रतिना निवर्तनीयं न विक्रेयमिति । स्तेनैरित्यादि । तस्करोपनीतस्य द्रव्यस्य रजतादेमुंधा-विना मूल्येन क्रयेण वा मूल्यप्रदानेन ग्रहणं तदाहृतादानं अनेकप्रत्यवायमिति परिहार्यम् ॥
भा०-विरुद्धराज्यातिक्रमश्वास्तेयवतस्यातिचारः। विरुद्ध हि राज्ये सर्व मेव स्तेययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः ।
टी०-विरुद्धेत्यादि । विरुद्धराज्यातिक्रमः । अतिक्रमो-व्यवस्थोल्लङ्घनम् । व्यवस्था च परस्परविरुद्धराज्यकृतैव । चशब्दः समुच्चायकः । एष चास्तेयव्रतस्यातिचारः । विरुद्धे हीत्यादि । यस्माद् विरुद्ध राज्ये सर्वमादानं-ग्रहणं तृणकाष्ठादेरपि स्तेययुक्तंचौरतया सम्बद्धं भवति । तस्माद् विरुद्धराज्यातिक्रमो न कार्यः ।। हीनाधिकेत्यादि । समस्यातिचारद्वयं निर्दिष्टं भाष्यकारेण व्यवहारसम्बन्धनाथ, हीनमानव्यवहारोऽधिकमानव्यवहारः हीनोन्मानव्यवहारोऽधिकोन्मानव्यवहारश्चेति । एतदेव विवृणोति
भा०--कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च ।
टी-कूटतुलेत्यादि । प्रसिद्धटङ्कादिटङ्किता अकूटर्तुला । ततोऽपा कूटतुला । एवं मानमपि, आभ्यां कूटतुलाकूटमानाभ्यां वचनं-दम्भनं छलनं, आदिशब्दाद् वचनकार्यक्रियाग्रहणं तैयुक्तस्तद्युक्तः सम्बद्धः क्रयबद्धः। क्रयो ग्रहणं विक्रयो-मूल्येन दानं, सर्वमे तन कार्यम् । वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारः, सामान्यवृद्धिप्रयोगोपन्यासः । स्वखपकादि वृद्धयाऽन्यस्य ददाति, सा च वृद्धिरन्याय्या न्याय्या च । तत्रान्याच्या परिहरणीया दशै. कादशकप्रभृतिः । यद्यप्युभयरुच्या सा क्रियते तथाप्यतितृष्णाभिभूत इत्यपोद्यते लोकेन । न्याय्या नूतन( तूना सा ?) आदेयेति ॥
भा०-प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पश्चारतेयव्रतस्यातिचारा भवन्ति ॥ २२ ॥
____टी०-प्रतिरूपेत्यादि । नामशब्द: स्वरूपार्थः । प्रतिरूपकव्यवहारस्वरूपमिति । सुवर्णस्य प्रतिरूपत्रि.या यादृक् सुवर्ण तादृशमेवापरद्रव्यं वर्णगौरवादिगुणयुक्त निष्पादयति प्रयोगविशेषात् । तथा रूप्यं-रजतं कतिपयदिवसस्थायीति । आदिग्रहणात तेल-धृत-क्षीर-दधि
१'घटितरूप ' इति ग-पाठः। २ 'कानि.' इति ङ-पाठः। ४-५ 'तुल्या' इति ग-पाठः । ६ 'भूतन आदे.' इति च-पाठः।
३ 'मानग्रहणं' इति -पाठ । 'प्रतिरूपक्रिया' इति क-म-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org