________________
स्वार्थाधिगमसूत्रम्
[ अध्यायः ७
तक्र-ताम्र-कांस्यादिपरिग्रहः । व्याजीकरणानि चेति । व्याजीकरणमपहृतानामन्यैर्गवादीनां सशृङ्गाणामग्निपककालिङ्गी फलस्वेदितानि शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यक् कलितानि वा यथारुचि शक्यन्ते कर्तु येथाऽन्यत्वमित्र प्रतिपद्यन्ते गवादयः । तथा कृतेषु शृङ्गेषु न सुखेनावधार्यतेऽन्यहस्ते वा विक्रीयन्त इतेि व्याजः । छद्माच्छद्मरूपाणां छद्मरूपत्वापादनं व्याजीकरणम् । एवमेते पञ्चास्तेयत्रतस्यातिचारा भवन्ति ॥ २२ ॥ चतुर्थाणुव्रतस्याति चाराभिधित्सयेदमुच्यतेस्थूलमैथुनविरमण- सूत्रम् — परविवाहकरणे -त्वरपरिगृहीता-परिगृहीतागमनाऽनङ्गक्रीडा- तीव्रकामाभिनिवेशाः ॥ ७- २३ ॥
व्रतस्य पश्चातिचाराः
१०८
टी० - एते पञ्च ब्रह्मव्रतस्यातिचाराः कृतद्वन्द्वा निर्दिष्टाः । पर विवाहकरणं, इन्वरपरिगृहीतागमनं, अपरिगृहीतागमनं, अनङ्गक्रीडा, तीव्रकामाभिनिवेशश्चेति । तत्र परविवाहकरणमिति । स्वापत्यस्यागारिणोऽवश्यंत्यैव विवाहः कार्यः, परविवाहकरणात् तु निवर्तते । गृहस्थ द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते स्वदारसन्तोषप्रतिपत्या परपरि - गृहीताभिगमनेन वा । स्वदारसेवनमेव प्रथमोऽभ्युपैति शेषात् निवर्तते । द्वितीयस्तु परपरिगृहीतदारासेवनात् निवर्तते, न स्वदारेभ्यो न वा अपरिगृहीतवेश्यादिभ्यः । तयोश्व यथासम्भव विचारा स्वमतानुसारेणाभ्युद्याः । तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य विवाह करणं - विवाहक्रिया, कन्याफललिप्सया वा स्नेहसम्बन्धेन वा । इत्वरपरिगृहीतागमनम् । प्रतिपुरुषगमनशीला इत्वरा - वेश्याऽनेकपुरुषगामिनी भवति । तस्यै च यदाऽन्येन कश्चित् कालमभिगृह्य भाटी दत्ता भवति तावन्तं कालं अगम्याऽसौ निवृत्तपरदारस्य भवति । इत्वरा चासौ परिगृहीता चेति इत्वरपरिगृहीता । गमनम् - अभिगमोमैथुनासेवनम् । अथवा इत्वरं स्तोकमप्युच्यते । इत्वरं - स्तोकमल्पं परिगृहीता इत्वरपरिगृहीता, अकृतलक्षणस्तत्पुरुषो मयूरव्यंसकादौ क्षेप्यः । अथवा इत्वरकालं परिगृहीता । शाकपार्थिवा: दित्वात् समासः काल (शब्द) लोपश्च । अपरिगृहीतागमनम् । वेश्या स्वैरिणी प्रोषितभर्तृकादिरनाथा अपरिगृहीता तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारः, न तु निवृत्त परदारस्य । अनङ्गः कामः कर्मोदयात् पुंसः स्त्रीनपुंसक पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोsपि योनि पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा स एवंविधोऽभिलाषोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः । तेन तत्र्त्तक्रीडा-रमणमनङ्गक्रीडा आहार्यैः काष्ठपुस्तफलमृत्तिकाचर्मादिघटितप्रजननैः कृतकृत्योऽपि च स्त्रलिङ्गेन भूयो मृद्नात्येावाच्यप्रदेशं योषितथा केशकर्षणप्रहारदानदन्तनखकदर्थनाप्रकारैर्मोहनीय कर्मवशात् किल क्रीडति, तथा
१ 'ततश्चान्य० ' इति च पाठः । २ 'करणमित्वर' इति क ख ग पाठः । ३ ' तंत्र क्रीडा ' इति ङ-पाठः । ४' गृह्णात्येव ' इति ङ-पाठः । ५ ' कर्मावेशात् ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org