________________
सूत्र २४ ] _स्वोपज्ञभाष्य-टीकालङ्कृतम् प्रकारा कामसेवा सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते । समाचरतश्चैवमधैर्येण लिष्टचित्तस्य कियत् फलम् ?, तात्कालिकी छिदा व्याधेस्तावदेव फलं, इतरस्य च मार्गेणर्जुना सेवमानस्येति, नानङ्गक्रीडया कश्चिद्गुणोऽतिरिक्तो लक्ष्यत इति उभयोरुभयमतिचार इति । तीवकामाभिनिवेश इति । तीव्रः-प्रकर्षप्राप्तः कामेऽभिनिदेशस्तीत्रकामाभिनिवेशस्तावत् पर्यन्तचित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्ववितृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां निश्चलवाटकैर इव मुहुर्मुहुश्चटकायामारोहति योषिति, वाजीकरणानि चोपयुक्ते जातकलमलकः। अनेन खल्वौषधप्रयोगेण गजप्रसेकी तुरङ्गावमर्दी च भवति सुत्रपाठ- पुरुष इत्ययमप्युभयोरतीचार इति । एते पञ्च ब्रह्मवतस्यातीचारा भवन्तीति। परामर्शः अन्ये पठन्ति सूत्रम्-"परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानङ्गक्रीडातीवकामाभिनिवेश" इति । तत्र न बुद्धयामहे इत्वरिकापरिगृहीतागमनमिति । यदि कर्मधारयस्ततः पुंवद्भावः। अथासमासस्ततः सम्बन्धोऽपि दुर्घटः । न चान्यः प्रकारः समस्ति । अन्ये त्वन्यथा पदानि वदन्ति । परविवाहकरणं इत्वरिकागमनं परिगृहीताऽपरिगृहीतागमनं अनमक्रीडा तीवकामाभिनिवेश इति त एवंवादिन इत्वरिकां व्याचक्षते । कुत्सितसंकीर्णयोषिदित्वरिका । तद्यथा-उन्मत्ता बधिरा अन्धा मूकिका बाला दीक्षितेत्यादिका । एतदभिगमात् किल राजभयलोकाकीर्तिप्रत्यवायसम्भवः। परिगृहीता किल प्रोषितभरीकेति सर्वमिदमननुपाति व्याख्यानमित्यपकर्ण्यम् ॥
भा०-परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा तीव्रकामाभिनिवेश इत्येते पश्च ब्रह्मव्रतस्यातिचारा भवन्ति ॥२३॥
टी-गतार्थमेवेति ॥ २३ ॥
इच्छापरिमाणवताविचारव्याचिख्यासयेदमाहस्थूलपरिग्रहपरिमाण- सूत्रम्-क्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास
कुप्य-प्रमाणातिक्रमाः॥७-२४ ॥ टी०-क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लङ्घनम्-अतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिस. मध्य भाष्यकृद् दर्शयति
व्रतस्य पश्चातीचाराः
१.पर्यन्तच्छिन्नता' इति -पाठः, 'पर्यन्तश्चित्तता' इति तु क-ग-पाठः। 'सुखाय स्वकक्षान्तरे इति रुपाठः। ३ छिदन्ति' इति च-पाठः। ४ तार्किका' इति उ-पाठः, “अस्तकिका' इति तुच-पाठः ५'परिगृहीतापरिगृहीता' इति च-पाठः। 'कर्ण्यते' इति क-ग-पाठः, 'तीतोऽतिकामा०' इति ग-पाठः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org