________________
११० तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ भा०-क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धनधान्यप्रमाणातिक्रमः दासीदासप्रमाणातिक्रमः कुप्यप्रमाणातिक्रमः इत्येते पश्च इच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥ २४ ॥
टी-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि । तत्र क्षेत्रं सस्योत्पत्तिभूमिः। तच सेतुकेतुमे_ दाद् द्विविधम् । तत्र सेतुक्षेत्रं अरघट्टादिसेक्यम् । मेघाकाशपतितोदकनिष्पाघक्षववास्तुभदा सस्य केतुक्षेत्रम् । वास्तु अगारं गृहमुच्यते। तदपि त्रिविधं खातं भूमिगृहकादि, उच्छ्रितं प्रासादादि,खातोच्छ्रितं भूमिगृहस्योपरि प्रासादादिसन्निवेशः,तेषां क्षेत्रवास्तूनां प्रमाणं प्रत्याख्यानकालेऽभिगृहीतम्-एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं यावचतुर्मासी संवत्सरं यावज्जीवं वा। अवधिकृतकालाभ्यन्तरे संकल्पितप्रमाणातिरेकक्षेत्रवास्तुग्रहणं इच्छापरिमाणव्रतातिचारः । हिरण्यं रजतं घटितमघटितं वाऽनेकप्रकारं पायोदिकम् । तथा सुवणेमपि । एतद्ग्रहणाचेन्द्रनीलमरकताधुपलकपरिग्रहः । सर्वेषामभिगृहीतप्रमाणातिक्रमेऽ. तिचारः । धनं गो-महिष्य-ऽजाविका-करभ-तुरग-करिप्रभृतिचतुष्पदपरिग्रहः । धान्यं व्रीहिकोद्रव-मुद्ग-माष-तिल-गोधूम-यवप्रभृति सर्वमगारिणा परिमितं ग्राह्यं, उपरिप्रमाणाद ग्रहणमतिचारः।दासीदासाः कर्मकराः उपरुधिका वा परिणयनादिविधिना स्वीकृता वा पत्नीत्यादिसकलद्विपदाभिगृहीतपरिमाणातिकमोऽतीचारः। ततश्च हंस-मयूर-कुकुट-सारिकादीनां च प्रमाणातिक्रमेऽतिचारः । कुप्यं कांस्य-लोह-ताम्र-सीसक-त्रपु-मृद्भाण्डक-त्वचिसार-विकारोदन्तिका-रोदन्तिका-काष्ठ-कुण्डक-पारी-मश्चक-मश्चिकादिप्रमाणातिरेकग्रहणमविचार इति। एवमेते इच्छापरिमाणवतस्यातिचाराः पश्च भवन्तीति ॥ २४ ॥
एवमणुव्रतातिचारानभिधाय सम्प्रति दिगादिवतानां क्रमेणातिचारानभिधातुमिच्छबाह । तत्र दिग्वतस्य तावत्दिखतस्य पक्षाती- सूत्रम्-ऊर्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवद्धि
स्मृत्यन्तर्धानानि ॥७-२५ ॥ भा०-ऊर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मृत्यन्तर्धानमित्येते पञ्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति ॥२५॥ ____टी०-ऊर्ध्वमधरितर्यक् प्राक्परिगृहीतस्य परिमाणस्य व्यतिक्रमः इति । व्यतिक्रमः प्रत्येकमभिसम्बन्धनीयः । क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । सर्वे कृतद्वन्द्वा दिक्परिमाणस्थाती
चाराः
१ 'दासदासी-' इति क-ग-पाठः। २ 'पत्रादि ' इति ग पाठः । ३ 'कुचुक ' इत्यपि पाठः । ४' नियम ऊर्ध्व स्मृते.' इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org