________________
सूत्रं २६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१११
चाराः पञ्च दिग्वतस्याती चारा भवन्ति । ऊर्ध्वं पर्वततरुशिखरारोहणादिपरिमाणम् । अघश्चाधीलौकिकग्राम भूमि गृहकूपादिपरिमाणम्। तिर्यगपि योजनमर्यादाभिग्रहव्यतिक्रमः। क्षेत्रवृद्धिरिस्येकतो योजनशतपरिमाणमभिगृहीतम्, अन्यतो दश योजनानि अभिगृहीतानि, दिशि तस्यामुत्पन्ने प्रयोजने योजनशतमध्यादपनीय अन्यानि दश योजनानि तत्रैव स्वबुद्धयाऽग्रे प्रक्षिपति संवर्धयत्येकत इति क्षेत्र वृद्धिरेषा । स्मृत्यन्तर्धानस्वरूपमाचष्टे । स्मृतेभ्रंशोऽन्तर्धानमिति अविस्मृतिमूलं नियमानुष्ठानम्। स्मृतिभ्रंशे तु नियमत एव नियमभ्रंशः किं मया परिगृहीतं क्रया मर्यादयेति व्रतमित्यस्मरतो ऽन्तर्धानम् - अपाकरणं, तिरस्करणं नियमस्येति ।। २५ ।। देशव्रतविरते रतिचाराभिधानायाह
देशावकाशिकव्रतस्य पञ्चातीचाराः
सूत्रम् - आनयनप्रेष्यप्रयोगशब्दरूपानुपात - पुद्गलक्षेपाः ॥ ७-२६ ॥
भा० - द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥
टी. - दिग्वतविशेष इव देशव्रतम् । इयांस्तु विशेषः - एकं यावज्जीवं
दिग्देश व्रतयोर्विशेषः संवत्सरं चतुर्मासपरिमाणं वा । देशव्रतं तु प्रतिदिवस प्रतिप्रहरं प्रतिमुहूर्तादिपरिमाणम् । अस्यातिचाराः पञ्च भवन्ति - द्रव्यस्यानयनमित्यादि । विशिष्टावधिके भूप्रदेशाभिग्रहे परतो गमनासम्भवात् सतो यदन्योऽवधिकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयनाय प्रयुज्यते त्वयेदमानेयं सन्देशकप्रदानादिनाऽऽनयनप्रयोगः । आनायनप्रयोगः इत्यपरे पठन्ति । बलाद् विनियोज्यः प्रेष्यप्रयोगः यत्राभिगृहीत - प्रविचार (१) देशव्यतिक्रम भयात् प्रेष्यं प्रहिणोति त्वयाऽवश्यमेव गत्वा मम गवाधानेयं इदं वा कर्तव्यं तत्रेति प्रेष्यप्रयोगः । स्वगृहवृतिप्राकारादिविच्छिन्न भूप्रदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनात् वृतिप्रकारप्रत्यासन्नवर्ती भूत्वा अभ्युच्छ्रुसितादि शब्दकरणेन समवसतिकान् बोधयति । ते च तच्छन्दश्रवणात् तदुपकण्ठमाढौकन्त इति स देशवतातिचारः । अनुपातशब्दः प्रत्येकमभिसम्बध्यते । शब्दमनु पततीति शब्दानुपातः । स एव श्रोता पुरुषः । अथवा शब्दस्यानुपतनम् - उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः । तथा पुद्गलप्रक्षेपातिचारः । पुद्गलाः परमाण्वादयः । तत्संयोगाद् द्व्यणुकादयः स्कन्धाः सूक्ष्मस्थूलमेदाः । तत्र ये बादराकारपरिणता लोष्टेष्टकाष्ठकलादयस्तेषां क्षेपः- प्रेरणम् । कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभा
१' पुद्गलप्रक्षेपा: ' इति घन्टी-पाठः । २ ' संदाना ' इति उभ्भ्पाठः । ३' तत्र कर्तव्यमिति' इति पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org