________________
११२
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७
वात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति । लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावन्तीत्येते पत्र देशव्रतस्यातिचारा भवन्ति यस्माद् गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावका शिकव्रतमभिगृह्यतेऽगारिणः तत्र स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने कियानपि गुणो लक्ष्यते । ईर्यापथविशुद्धौ स्वयं निपुणत्वात् परस्य च प्रमादवतो गमने ( आगमने ) भूतोपमर्दसम्भवादिति ॥ २६ ॥ एवं प्रज्ञते देशवतातिचारेऽनर्थदण्ड विरंतेर तिचाराभिधित्सयेदमुच्यते-
अनर्थदण्डविरमण- सूत्रम् — कन्दर्प - कौत्कुच्य मौखर्या समीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ॥
व्रतस्य पञ्चातीचाराः
टी० – कन्दर्पः - कामस्तद्धेतुः विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते । रागोद्रेकात् प्रहा समिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । मुखनयनोष्ठचरण विकारपूर्वकः परिहासादिजनको भाडावकरस्येव कायिको व्यापारः । कौत्कुच्यं कुत्सित सङ्कोचनादिक्रियायुक्तः कुत्कुचः तद्भावः कौत्कुच्यम् - अनेकप्रकारा भाण्डादिविडम्बनक्रियाः । कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । अन्ये पठन्ति कौकुच्यमिति तेषां कुत्सितः कुचः संकोचनादिक्रियाभाकू तद्भावः कौकुच्यम् । धाष्टर्यप्रायमसभ्यासम्बद्धबहुल प्रलापित्वं मौखर्यम् । असमीक्ष्य - अनालोच्य प्रयोजनमात्मनोऽर्थमधिकरणं उचितादुपभोगादति रेककरणमसमीक्ष्याधिकरणं मुसलदात्रशिलापुत्रशत्र गोधूमयन्त्रक शिलाग्न्यादिदानलक्षणम् । उपभोग आत्मनः पान- भोजन- चन्दनकुङ्कुम-कस्तूरिकाविलेपनादिः । अतिरिक्तोऽन्यार्थो दण्डोऽनर्थदण्डः केवलमेनसो हेतुः । प्रत्येकम्मुपभोगस्तुल्य एवेत्युपभोगादधिकत्वमुपभोगाधिकत्वमिति कृतद्वन्द्वाः पञ्चाप्यनर्थदण्डविरतिव्रतस्यातिचारा भवन्तीति ॥
भा० - कन्दर्पः कौत्कुच्यं मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमिस्येते पञ्चानर्थदण्ड विरतेरैतिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगः हास्यं च । कौत्कुच्यं नाम एतदेवोभयं दुष्टकीयप्रचारसंयुक्तम् ॥
टी० - - कन्दर्प इत्यादि भाष्यं प्रायो गतार्थम् । तत्र कन्दर्पो नामेत्यादि । तत्रतेषु पञ्चस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, राग:कामानुषङ्गी स्नेहस्तत्सम्बद्धः, सभाई:- सभ्यः, न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगः हास्यं चेति । वाचः प्रयोग-उच्चारणं वाक्प्रयोगः । हास्यं हि यावद स्पष्टवर्णश्रुतिरूपमिति ।
१ — विरस्यति ' इति ङ-पाठः | २' कौकुच्य०' इति घ-पाठः । ३' भण्डोऽवकरणस्येव ' 'मण्डचरणस्येव' इति पाठौ । ४ 'रतिव्रतस्यातिचारा' इति घ-पाठः । ५ ' नाम सरागसं०' इति ग-पाठः । ६ 'कायप्रवीचार' इति घ-टीपाठ: । ७' मोहोदयादवस्पष्ट' इति च पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org