SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११३ सूत्रं २८] स्वोपज्ञभाष्य-टीकालङ्कृतम् कौस्कुर नामेत्यादि । नामशब्दोऽलङ्कारार्थः । एतदेव च वाचो व्यापारणं हसनं चोभयंद्वयमपि, दुष्टकायप्रवीचारसंप्रयुक्तमिति । दुष्टः कायप्रवीचारो मोहनीयकर्मोदयसमावेशाद् तद्युक्तं-तत्सम्बद्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधान कौत्कुच्यमिति । भा०-मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरण लोकप्रतीतम्। उपभोगाधिकत्वं चेति ॥२७॥ ____टी-मौखर्यमित्यादि । मुखरोऽनालोचितभाषी तुण्डिलः, तदेवाचष्टे-असम्बद्धबहुप्रलापित्वमिति । असम्बद्धमिति पूर्वापरेणाघटमानं, बहु प्रलपति तच्छीलश्च बहुप्रलापी तद्भावो बहुप्रलापित्वम्, यत्किञ्चिदसम्बद्धं जल्पति, न च खात्मनः कश्चिदर्थ साधयतीति । असमीक्ष्याधिकरणं अनालोच्याधिकरणम् । असमीक्ष्य कुर्वाणः, स्वात्मानं नरकादिष्वधिकरोति येन तदधिकरणं, तच्च लोकप्रतीतमिति । यन्नात्मनः कश्चिदुपकारं करोति परप्रयोजनमेव केवलं साधयति तदसम्मीक्ष्याधिकरणं आत्मनोऽनुपयोगादिति विवेकिजनप्रतीतम् । उपभोगाधिकत्वं चेति । लोकप्रतीतमेवेत्यभिसम्बध्य स्नानालङ्कारादि यावदुपभुज्यते स्वात्मनस्तावदेव पेषयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकत्वम् । अनर्थदण्डविरतेः पञ्चातिचारा भवन्ति ॥ २७ ॥ अनर्थदण्डानन्तरोपदिष्टसामायिकातिचारप्रसिद्धयर्थमिदमुच्यते बत सूत्रम्-योगदुष्पणिधानानादरस्मृत्यनुपश्चातीचाराः पस्थापनानि॥७-२८॥ भा०-कायदुष्प्रणिधानं वाग्दुष्पणिधानं मनोदुष्पणिधानं अनादरः स्मृत्यनुपस्थापन इत्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति ॥२८॥ टी-युज्यन्त इति योगाः-कायादयः। प्रणिधानं प्रयोगः। दुष्टं प्रणिधानं दुष्प्रणिधानम् । दुष्प्रणिधानशब्दस्य च प्रत्येकमभिसम्बन्धं दर्शयति-कायदुष्प्रणिधानमिति । शरीरावयवाः पाणिपादादयस्तेषामनिभृततावस्थापनं कायदुष्प्रणिधानम् । वर्णसंस्काराभावार्थानवगमचापल्यानि वाकक्रिया वाग्दुष्प्रणिधानम् । क्रोधलोभाभिद्रोहाभिमानेादिकार्यव्यासङ्गजातसम्भ्रमो दुष्प्रणिवत्तेमन इति मनोदुष्पणिधानम् । अनादरोऽनुत्साहः, प्रतिनियतायां वेलायामकरणं सामायिकस्य, यथाकथञ्चित् प्रवृत्तिरनादरः-अनैकाऽयं, स्मृत्यनुपस्थापनमुद्माम्तचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः । किंविषयायाः स्मृतेः? सामायिकप्रस्तावात् तद्विषमाया इति । सामायिक मया कर्तव्यं न कर्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः । स्मृतिमूलत्वाच मोक्षसाधनानुष्ठानस्येति, एते पञ्च सामायिकवतस्यातिचारा भवन्तीति॥२८॥ सामायिकवतस्य १'भवन्तीति' इति च-पाठः। २'मनोदुःप्रणिधानं वाग्दुःप्रणिधानं' इति क-पाठः। ata Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy