SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पश्चातीचारा ११४ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ७ ____ कथिताः सामायिकातिचारास्तत्समीपोद्देशभाजः खलु पौषधोपवासस्य केऽतिचारा इत्याहपौषधोपवासवतस्य सूत्रम्-अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसं स्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥७-२९॥ भा०-अप्रत्यवेक्षिताप्रमार्जिते उत्सर्गः अप्रत्युपेक्षिताप्रमार्जितस्थादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितसंस्तारोपकमः अनादरः स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥ २९ ॥ ___टी०-प्रत्यवेक्षणं-चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजङ्गमजन्तुशून्यता। प्रमार्जनं वस्त्रप्रान्तादिना, विशुद्धिहेतोर्यथा युज्यमानम् , आगमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्यायं क्रियाकलापोऽगारिणः प्रतिनिर्दिश्यते। उत्सर्गः-त्यागो निष्ठ्यत-स्वेद-मलमूत्र-पुरीषादीना, प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः। अथवा अप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपवासवतमतिचरतीति । आदान-ग्रहणं यष्टिपीठफलकादीनाम् । तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यम् । अन्यथाअत्यवेक्षिताप्रमार्जितस्यादानमतिचारो, निक्षेपश्च । तथाऽप्रत्यवेक्षितेऽप्रमार्जिते च भूप्रदेशे संस्तारोपक्रमः । संस्तारः संस्तीर्यते यः प्रतिपन्नपौ. षधोपवासेन दर्भकुशकम्बलीवस्त्रादिस्तस्योपक्रमः-करणमनुष्ठानं, भूप्रदेशे, यद्वा दादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः । अनादरः स्मृत्यनुपस्थापनं च प्रार व्याख्यातम् । अनादरः पोषधोपवासप्रतिपत्तिकर्तव्यताक्रियायां, तद्विषयमेव स्मृत्यनुपस्थापनमित्येते पञ्च पौषधोपवासस्यातिचार। भवन्तीति ॥ २९ ॥ सम्प्रति प्रस्तावायातानुपभोगपरिभोगातिचारान् वक्तुकाम आहसूत्रम्-सचित्त-सम्बद्ध-संमिश्रा-भिषव-दुष्पकाहाराः ॥ ७-३०॥ टी-भोजनकृतमुपभोगं विशिनष्टि भाष्येण - भा०-सचित्ताहारः सचित्तसम्बद्धाहारः सचित्तसंमिउपभोगपरिभोगवतHITTA श्राहारः अभिषवाहारः दुष्पक्काहारः इत्येते पश्च भोगव्रत " स्थातिचारा भवन्ति ॥३०॥ टी-चित्तं चेतनो संज्ञानमुपयोगोऽवधानमिति पर्यायाः । सचित्तश्चासावाहारश्च सचित्ताहारः। सचित्त आहारो वा यस्य, सचित्तमाहारयतीति वा सचित्ताहारः, मूलकन्दली. १.३ 'अप्रत्युपेक्षिता.' इति ग-पाठः । ४ 'उपभोग०' इति घ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy