________________
सूनं ३१ ]
स्वोपज्ञभाष्य - टीकालङ्कृतम्
कन्दार्द्र कादिसाधारणवनस्पति प्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः । पृथिव्यादिकायानां वा सचित्तानाम् । तथा सचित्तेन सम्बद्धं कर्कटिकवीज कौलिकाकुलस्य पकबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारत्वम् । तथा सचित्तेन सम्मिश्राहारः पुष्प-फलव्रीहि-तिलानां व्यति मिश्रमोदका दिखाद्यस्थ वा । कुन्थुपिपीलिका दिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यबहारः अभिषवाहार इति । सुरासौवीरकमांसप्रकारपर्णक्याद्यनेकद्रव्य सङ्घातनिष्पन्नः सुरासीधुमधुवारादिरभिवृष्यवृक्षद्रव्योपयोगो वा । दुष्पकाहार इति । दुष्पकं मन्दपक में भिन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककण्डुकादि तस्याभ्यवहार ऐहिक प्रत्यवायकारी, यावता वार्डशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥ ३० ॥
उक्तमुपभोगपरिभोगवतातिचार विधानम्, तदनन्तरं व्याख्यातातिथिसंविभागाति चार
प्रदर्शनार्थमिदमुच्यते
अतिथिसंविभागश्रत- सूत्रम् – सचित्तनिक्षेपपिधान परव्यपदेशमात्सर्यकालातिक्रमाः ॥७-३१ ॥
स्य पञ्चातीचाराः
भा० - अन्नादेर्द्रव्यजातस्य संचित्तनिक्षेपः सचित्तपिधानं परस्येदमिति परव्यपदेशः मात्सर्ये कालातिक्रम इत्येते पञ्चातिथि संविभागस्यातिचारा भवन्ति ॥ ३१ ॥
टी० - अन्नादेरित्यादि । अनमोदनखाद्यकादि चतुर्विध आहारो वाऽशनादिः तस्य सचितेषु व्रीहि यवगोधूम - शाल्यादिषु निक्षेपः । तच्चान्नादि कया बुद्ध्या निक्षिपति ? - अदानबुद्वया । एतच्च जानात्यसौ - सचिते निक्षिप्तं सत् न गृह्णन्ति साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति । सचित्तपिधानमिति । सचित्तेन पिधानं - स्थगनं सूरणकन्द पत्रपुष्पादिना तत्रापि तथाविधयैव बुद्धया सचित्तेन स्थगयति । परव्यपदेश इति साधोः पौष वोपवास पारणाकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्तेपरकीयमिति नास्माकीनं अतो न ददामीति, न चैष परमार्थः, परमार्थतस्तु तदीयमेव तत् । अथवा परस्य-अन्यस्येदमस्तीति तत्र गत्वा मार्गयत यूयमिति । मात्सर्यमिति । मार्गितः सन् कुप्यति, सदपि मार्गितं न ददाति । अथवा तेन तावत् द्रमकेण दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद ददाति । परोनतेर्वैमनस्यं च मात्सर्यम्, कषायरूपितेन वा चित्तेन ददतो मात्सर्यमिति । कालातिक्रम इति । उचितो यो भिक्षाकालः साधूनां तमतिक्रमय्यानागतं वा भुङ्क्ते पौषधोपवासी, स च कालातिक्रमो ग्रहीतुरप्रीतिकरोऽप्रस्तावाददानं चेत्यतीचारः । इत्येते पञ्चातिथिसंविगस्यातीचारा भवन्ति ॥ ३१ ॥
११५
१' को किलिकाकुलादिना ' इति ङ-पाठः । २ ' मस्विन्न०' इति च पाठः । ३ 'हारादिकप्रत्य ०' इति च पाठः । * 'साचेते निक्षेपः' इति घः पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org