________________
११६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ७
शीलसप्तकाविचारानभिधाय सम्प्रति मारणान्तिकसंलेखनायाः कति अतिचारा
भवन्तीत्याह
सूत्रम् - जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदानकरणानि ॥ ७-३२ ॥
टी० -- आशंसाशब्दं जीवितमरणाभ्यां सहाभिसम्बध्नन्नाह
भा०
-- जीविताशंसा मरणाशंसा मित्रानुरागः सुखानुबन्धो निदानकरणमित्येते मारणान्तिकसंलेखनायाः पश्चातिचारा भवन्ति ॥
टी० - जीविताशंसेत्यादि । संलेखनायाः अन्ते प्रतिपन्नप्रत्याख्यानस्यामी भवन्त्यature: | जीवितं - प्राणधारणं तत्राशंसा - अभिलाषो यदि बहुकालं जीवेयमिति । वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् बहुपरिवारदर्शनाच्च लोक श्लाघाश्रवणाच्चैवं मन्यते - जीवितमेव श्रेयः प्रत्याख्यातानशनस्यापि, यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तते इति । मरणाशंसा त्वेतद्विपरीता, न कचित् तं प्रतिपन्नानशनं गवेषयति न सपर्यति न चाद्रियते न कश्चित् श्लाघते ततस्तस्मैवंविधवि परिणामो जायते -- यदि शीघ्रं प्रियेयाहमपुण्यकर्मेति मरणाशंमा । मित्रानुराग इति । मेद्यन्तीति मित्राणि-स्नेहमत्यन्तं कुर्वन्ति सहजी वितमरणानि तेषु मित्रेषु अनुरागः -स्नेहो यस्तं सादृश्यामप्यवस्थायां न जहातीति मित्रानुरागोऽतिचारः । तथा पुत्रादिष्वपीति योज्यम् । मित्रस्योपकारमकृत्वा पुत्रादीन वा स्थानेष्वनवस्थाप्य यदि न म्रियेयेति, सर्वसङ्गत्यागस्तस्यामवस्थायां कार्य इत्युपदेशः । सुखानुबन्ध इति । अनुभूतप्रीतिविशेषस्मृतिसमाहरणं चेतसि सुखानुबन्धः। निदान करणमिति । निदानम् - अवखण्डनं तपसश्चारित्रस्य वा, यदि अस्य तपसो मास्ति फलं ततो जन्मान्तरे चक्रवर्ती स्यामर्धमरताधिपतिर्महामण्डलिकः सुभगो रूपवानि - त्यादि । एतच्चात्यन्ताधममनन्त संसारानुबन्धित्वात् परित्याज्यम् । इत्येते पञ्चषष्टिरतिचारा ज्ञेयाः परिहार्याश्च ज्ञात्वेत्थमगारिधर्म एवंप्रकारः । ननु सम्यक्त्वतिचारपञ्चकसम्भवात् सप्तविरविचाराः स्युरिति । उच्यते - सम्यक्त्वं हि मूलप्रसादपीठरचनावत् आधारभूतमणुव्रतादीनाम्, अतस्तस्याधारत्वान्न व्रतशीलेष्वतिचारग्रहणम् । तदेतेष्वित्यादिनोपसंहरति
भा०- - तदेतेषु सम्यक्त्वव्रतशीलव्यतिक्रमस्थानेषु पञ्चषष्टिष्वति वारस्थानेषु अप्रमादो न्याय्य इति ॥ ३२ ॥
टी० - तस्मादपायदर्शनादेतेषु पञ्चषष्टिष्वतिचारेषु प्रमादो न कार्यः, अप्रमादस्तु न्याय्य इति ॥ ३२ ॥
भा०
-अत्राह-उक्तानि व्रतानि व्रतिनश्च । अथ दानं किमिति । अत्रोच्यतेटी० – अत्राहोक्तमित्यादिना सम्बन्धमाचष्टे । अत्र - व्रतेषु व्रतिषु च व्याख्यातेषु १ ' वाच्यादि ' इति च पाठः । २ ' अनुबन्धभूतस्त्रीविशेष०' इति ग-पाठः । ३ 'सम्यगति' इति पाठ
1
Jain Education International
For Personal & Private Use Only
•
www.jainelibrary.org