________________
'सूर्व ३३]
स्वोगज्ञभाष्य-टीकालङ्कृतम् दनुवादद्वारेण दानं प्रस्तौति । उक्तानि-अभिहितानि लक्षणतो व्रतानि व्रतिनध । तदनन्तरमुद्दिष्टं अथ दानं किमिति । सद्वेद्यकर्मास्रवाभिधानक्रममाश्रित्य प्रश्नयति-दानं किंलक्षणकमिति, तत् दानलक्षणं वत्तुकामः अत्रोच्यत इत्याह ।। - सूत्रम्-अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ७-३३ ॥
टी०-अपरे मुक्तसम्बन्धमाचक्षते-अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवोदितः । तत्र किंलक्षणं दानमित्याह-अनुग्रहार्थ स्वस्यातिसगों दानम् । अनु. गृह्यतेऽनेनेत्यनुग्रहोऽनादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषङ्गिकफलं प्रधान मुक्तिः, आनुषङ्गिक स्वर्गादिप्राप्तिः प्रच्युतस्येह सुकुलप्रत्ययातिविभवबोधिलाभादिः सोऽर्थः-प्रयोजन यस्य तदनुग्रहार्थ-अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात् । स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्तते इत्यात्मीयवचनः प्रयुक्तः । स्वमात्मीयन्यायेन स्वीकृत पूर्वजक्रमागतं न्यायवृत्त्या वा स्वसामोपात्तं तस्यातिसर्गः-त्यागः । न चोमनमात्र त्यागशब्देनोच्यते, किं तर्हि १, दानं विशिष्टसंप्रदानकमित्यर्थः । तच सम्प्रदानं द्विविधम्-अर्हदगयन्ता साधर्मिकाच, तत्राद्भयो दीयते पुष्प-बलि-धूप-चामरा-ऽऽतपत्र-कलश-ध्वज-चन्द्रातपकिरीटाभरणादिः । साधर्मिकास्तु द्विप्रकारा:-साधवः श्रावकाच । साधवो यथोक्तज्ञानदर्शनक्रियानुष्ठानसम्पन्नाः। श्रावकाश्च सम्यक्त्वाणुव्रतादिद्वादशविधधमेभाजः । तेभ्यो दानममादेदेशकालोपपत्रमिति । एवंविधसूत्रार्थप्रतिपादनाय आत्मपरानुग्रहार्थमित्यादि भाष्यम् ।
मा०-आत्मपरानुग्रहार्थ स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ॥ ३३ ॥ किश्च
ट-अनेन च भाष्येण विशुद्धबुद्धित्वं दातुराख्यायते । श्रद्धादिगुणयोग उपायः प्रतिग्रहीता पात्रविशेषः देयसम्पञ्चेति । आत्मा च परश्च आत्मपरौ तयोरनुग्रहा आत्मपरानुग्रहः सोऽर्थो यस्य तदात्मपरानुग्रहार्थम् । अनुग्रह उपकारः । स च विशुद्धया धिया ददतः, कर्मनिर्जरणादि फलं ममास्तीत्यनुग्रहग्रहणाद् विशुद्धबुद्धित्व लभ्यते, अन्यथा तु अनुग्रहाभाव एव स्यात् । तच्च निर्जरादिफलमुपेयं उपायाहते न सम्पपत इत्युभयपरिग्रहः । देशकालपुरुषावस्थाः संप्रेक्ष्यागमानुसारिणा रागप्रमोदैनिर्भरेण चेतसा रोमाश्चकञ्चकोपगूढवपुषा वाऽभ्युत्थानासनप्रदानवन्दनचरणप्रमार्जनसत्कारपूर्वकं समाधायेकाश्यमित्यादिरुपायः । आत्मेति दाता श्रद्धाशक्तिसत्त्वक्षमाविनयवितृष्णतागुणसम्पयो ददामीत्येवं परिणतः, परोपादानात् प्रतिग्रहीताज्ञानक्रियान्वितों विजितेन्द्रियकषायः स्वाध्यायतपोध्यानसमाधिभार मूलोत्तरगुणसम्पदुपेतः पात्रमिष्यते । स्वस्य द्रव्यजातस्यानपानव. खादेरित्यनेन देयनिर्देशः । स्वस्येत्यात्मीयस्य लोकविरुद्धचौर्यव्यवहाराधनुपात्तस्य । द्रव्य
हेतुवादद्वारेण' इति स-पाठः। २ 'विशुद्धत्वं' इति -पाठः।३'वामाव' तिन-पाठः। ४'पायपरि.' इतिच-पाठः। ५'दातिभरेण' इति -पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org