________________
११८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ जातस्येति द्रव्यविशेषस्य पुद्गलद्रव्यस्य जीवद्रव्यस्य च, पुनलद्रव्यस्यापि न सर्वस्य कुठारहलदाप्रशस्त्रादेरनेकपाणिदुःखहेतोः। किं तर्हि?, अन्नपानवस्त्रादेः । आदिग्रहणादौषिकौपग्रहिकसक लोपकरणपरिग्रहः । सर्वथा आहारो भेषजं शय्योपधिर्वा साधोः परत एव लभ्यः। सेच पुद्गलो. स्पादनेनैषणाशुद्धः। स च दातुः प्रतिग्रहीतुथोपकारको निर्जराफलत्वात्, जीवद्रव्यस्यापि न सर्वस्य, दासदासीबलीवर्दवाहनादेः स्वयमेव दुःखितत्वात् क्लिश्यमानत्वात् । यथाऽऽह
"ज न य दुहियं न य दुक्खकारणं होइ दिण्णमण्णेसिं ।
वट्टइ अणुग्गहे तं विहिए दिन्नं असावजं ॥१॥" द्विपदमपि गृहिणा प्रव्रज्याभिमुखं प्रव्रज्याई पुत्रदुहित्भ्रातृपत्नीप्रभृति स्वामिना दत्तमनुज्ञातं प्रव्राज्यं, इत्थमुक्तेन न्यायेन देशकालोपपन्नमवेतनं सचेतनं वा द्रव्यजातं पात्रे गुणवति देयम् । अत्राधाकोद्यपि देशकालापेक्षपात्रविनियुक्तं स्वर्गानुकूलप्रत्ययातिफलमेव भवति, पारम्पयोन्मुक्तिफलमपीति ॥ ननु च सम्प्रदानं यत् साक्षात् प्रतिगृह्णाति यथा साधुरणुव्रती वा । यत् पुनर्भगवते दीयते निर्वाणप्राप्तये पुष्पबलिधूपादि तत्र कथं भगवतः सम्प्रदानत्वम् १ अत्रो च्यते-त्रिविधं सम्प्रदान,प्रेरका-ऽनुमन्त-अनिराकटेभेदात् । तत्र प्रेरकं यदर्थित्वमुपदशेयत् कतोरं क्रियायां प्रेरयति । यत्रेदमुच्यते साधुभ्यो भिक्षां ददातीति । अनुमन्तु यथा-आचार्याय वासोयुगं ददातीति । आचार्यो हि यद्यप्यनार्थत्वान्न प्रेरयति दाने परं तथापि दातुरनुग्रहकियाचिकीर्षया दीयमानमनुमन्यते । अनिराकर्तृ यथा-भगवते पुष्पाणि ददाति धूपं वा, भगवान् न प्रेरयति नानुमन्यते, किन्तु परहितोयप्रतिघातपरिहारार्थमसन्निधानाद् दातारं न निराकरोति । अतो युज्यत एव सम्प्रदानत्वं भगवतः । यदा तसिन्निधानादनिराकर्तृत्वं तदा कथं परोपयोगिता कर्मणः । नैवमुच्यते यत्र परस्योपयोगोऽवश्यमस्ति स त्याग इति, अपि तु यो व्यापारः कर्मणः परोपयोगामिप्रायेण स त्यागः । असनिहितेऽपि चोपयोक्तरि त्यक्तुः सोडभिसन्धिरस्तीत्यदोषः। कारकत्वं वा सन्निहितस्य क्रियायां निमित्तभावात् । एतोवतैव च कारकत्वमिष्टं, देवताश्च स्वगुणातिशययोगाद् दातुश्चेतसि प्रसादमादधानास्त्यागे निमित्ततां आपधन्त एवेति ॥ ३३॥ .. किश्चेत्यनेन प्रस्तुतस्य दानधर्मस्य तरतमादतिशयभेदप्रतिपत्त्या फलविशेषनिरूपणायाह
सूत्रम्-विधि-द्रव्य-दातृ-पात्र-विशेषाच्च तद्विशेषः ॥७-३४ ॥
टी-विध्यादयः कृतद्वन्द्वाः तेषां विशेषः-अतिशयः प्रकर्षापकर्षयोगः तस्माद् विध्यादिविशेषाच धर्मविशेषः । धर्मश्च क्षमादिदशलक्षणकः, स पुण्योपचयनिजेराहेतुः । पुण्योप
१ 'भवद्गमो०' इति च-पाठः।
२ छाया
यत् न च दुःखितं न च दुःखकारणं भवति दत्तमन्येषाम् ।
वर्ततेऽनुग्रहे तद् विधिना दत्तमसावद्यम् ॥१॥ .३ सन्तुल्यतामाचारावृत्तिगतं यत्स्वयमदुःखितं स्यात्' इत्यादिपूर्वकं पद्यम् ।
४'देयव्रताघात' इति ङ-पाठः। ५'एतावदेव च' इति हु-पाठः। ६ 'अपि प्रतिपायन्त 'इतिच-पाठन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org