________________
सूत्र ३४ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
चयापचय 'निर्जराहेतुविध्यादि (१) मात्र विध्यादिचतुष्टयापेक्षौ, तथा विध्यादिचतुष्टयप्रकर्षदेश कालोपपन्न कल्पनीयदानादेकान्तेनैव निर्जरा प्रकर्षवर्तिनी मन्दविध्यादिदानान्मन्दा मध्यविध्यादिदानान्मध्या । एतदेव भाष्येण विविच्य दर्शयति
भा० - विधिविशेषाद् द्रव्यविशेषाद् दातृविशेषात् पात्रविशेषाच तस्य दानधर्मस्य विशेषो भवति । तद्विशेषाच्च फलविशेषः ॥
टी० - विधिविशेषादिति । पञ्चम्याः प्रागुक्तं लक्षणम् । विधानं विधिः विशिष्टप्रकारः तदतिशयान् पुण्यनिर्जरा तिशयस्तदतिशयात् स्वर्गफल विशेषो मुक्तिफलप्राप्तिर्वा । द्रव्यमन्नादि तद्विशेषात् । तथा दातृविशेषात् पात्रविशेषाच्च । तद्विशेष इति तच्छब्देन दानधर्मः परामृश्यते । दानं - त्यागस्तदवाप्यो धर्मो दानधर्मः तस्य विशेषो भेदः प्रकार्षापकर्षल - क्षणः । दानधर्मभेदाच्च फलभेदः, कारणानुरूप कार्यनिष्पत्तेः । एवं समासतः सूत्रार्थमाख्याय सम्प्रति विशेषेण विवृणोति
भा० – तत्र विधिविशेषो नाम देशकालसम्पत्श्रद्धा सत्कारक्रमकल्पनीयत्वमित्येवमादिः ॥
टी० - तत्रेत्यादि । तत्र तेषु विध्यादिचतुर्षु विधिविशेषस्तावदयम् । नामशब्दो वाक्यालङ्कारे । देशकालसम्पदिति । व्यपगतस्थावरजङ्गमजन्तुको देशो दातुः प्रतिग्रहीतुश्चेति देश सम्पत् । कालसम्पदपि न रात्रौ दिवाऽपि स्वार्थमुपक्लृप्तेऽशनादौ उचिते भोजनकाले परिवेपकोत्थितः स्वतश्व कडुच्छुषो कोखापडल कादङ्किकाद्युपकरणव्यग्रकरासु सञ्चरतीषु पुरः कर्मपश्वात् कर्माभावात् कालसम्पत् । एवं वस्त्रपात्रादिदानमप्युचितकाल इति । श्रद्धा गुणवत्सु दानामिलापो दत्तमेभ्यो बहुफलं भवति । सत्कारोऽभ्युत्थानासनप्रदानादिः प्रहर्षपुरःसरं देयगतः, तावत् क्रभो यो यत्र जनपदे प्रसिद्धः पटादिरन्यो वा । वस्त्रादिषु तु रत्नाधिकक्रमः । प्रकृष्टमध्यम जघन्यपात्रक्रमो वा । कल्पनीयत्वमुद्गमादिविशुद्धत्वमागमविहितभक्ष्याभक्ष्य पेयापेयग्राह्माग्राह्यता च । आदिग्रहणात् स्वयमेव स्वहस्तेन श्रद्धासंवेगानन्दप्रविकसितवदन नयनोर्थमहमनुगृहीत इत्येष विधिः ॥
भा०- - द्रव्यविशेषः अन्नादीनामेव सारजातिगुणोत्कर्षयोगः ।
डी० - द्रव्यविशेषो द्रव्यस्यातिशयः प्रकृष्टता । अम्नशब्देन चाशनं गृहीतम् । आदिशब्दात् पानखानखाद्यवस्त्र पात्रदण्डको घोपग्रह भेदोपनिपरिग्रहः । तदेषामन्नादीनां सारजातिगुणोत्कर्षयोगः । सारोऽनस्याच्युतगन्धरसादित्वम् । जातिः शालिब्रोहिगोधूमादिका । गुणाः सुरभिलवणस्त्रिग्धमधुरत्वादयः सुस्विन्नत्वादयो वा । एषां सत्रादीनामुत्कर्ष:प्रकृष्टता तेन योगः - सम्बन्धः । एवं पानकादीनामपि । तथा वस्त्रपात्रदण्डकादीनां देशान्त
११९
१' मन्दमध्याधिमात्रं ' इति ग-पाठः । २ ' मन्दामध्य०' इति च पाठः । ३ ' विध्यादिमात्रं ' इति पाठः । 'मुपकते' इति ङ-च-पाठः । ५ कात्थितश्चेतश्च इति च पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org