SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ परामर्श सूत्र ९] स्वोपज्ञभाष्य-टीकालङ्कृतम् नीयम्-अनुभवनीयं निद्रा चासौ वेदनीयं चेति सर्वत्र समानाधिकरणः । घेदनीय व दर्शनावरणोत्तरप्रकृतिप्रस्तावे वेदनीयं प्रस्तावापास्तमुपन्यस्तमित्यसमीची * नमिवाभाति । यतो वेदनीयं तृतीयमूलप्रकृतिरिति । अत्रोच्यते-दर्शनावरगभेदा दर्शनावरणजातीया एव, निद्रादयो यतः समधिगताया एव दर्शनलब्धेः उपयोगेधाते प्रवर्तन्ते, चक्षुर्दर्शनावरणादिचतुष्टयं तूगमोच्छेदित्वान्मूलघातं निहन्ति दर्शनलब्धिमित्यतो दर्शनावरणभेदाः । वेदनीयशब्दस्तु सामान्येन सकलकमोनुभववचनोऽपि प्रवचने प्रसिद्धतरस्वात् तृतीयमूलप्रकृतौ व्यवहियते । अनुभवनीयत्वं तु सर्वकर्मणां परमार्थतः समस्तीत्यतो न दोषः। दुःखप्रतिबोधलक्षणा निद्रानिद्रा । ऊर्ध्वशयनलक्षणाप्रचला। चङ्क्रमणमाचरतः शयनं प्रथलाप्रचला । स्त्यायतीति स्त्यानम्। स्तिमितचित्तोनातीव विकस्वरचेतन आत्मा । बाहुल _ कात् कर्तरि ल्युट् । स्त्यानस्य स्वापविशेषे सति गृद्धिः-आकाङ्क्षाभिलाषो पाठान्तर __मांसमोदकदन्तायुदाहरणप्रसिद्धा स्त्यानगृद्धिः । स्त्यानर्द्धिरिति वा पाठः । तदुदयाद्धि महाबलोऽर्धचक्रवर्तितुल्यबलः प्रकर्षप्राप्तौ भवति । अन्यथा जघन्यमध्यमावस्थामाजोऽपि संहननापेक्षया सम्भवत्येवेति । स्त्यानस्य ऋद्धिः स्त्यानविरिति । चशब्दः समुच्चयवृत्तिः । दर्शनावरणभेदाः चक्षुर्दर्शनावरणादयो निद्रावेदनीयादयति वाक्यार्थः । उक्तार्थानुगामि च भाष्यम् __भा०-चक्षुर्दर्शनावरणं, अचक्षुर्दर्शनावरणं, अवधिदर्शनावरण, केवलपर्शनावरण, निद्रावेदनीयं, निद्रानिद्रावेदनीयं, प्रचलावेदनीय, प्रचलाप्रचलावेदनीय, स्स्यानद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ॥८॥ ___टी-चक्षुर्दर्शनावरणमित्यादि सर्व गतार्थम् । दर्शनावरणं नवभेदं भवतीस्वन्ते निगमितं नवभेदमेवेति ॥८॥ सम्प्रति यत्तदागमे प्रसिद्धं वेदनीयत्वेन तृतीयं मूलप्रकृतिरूपं तदुत्तरप्रकृतिविवक्षया सूत्रकार आह मे सूत्रम्-सदसवेद्ये ॥८-९॥ उत्तरप्रकृती टरी०-उत्तरप्रकृतिभेदमात्रस्य विवक्षितत्वात् प्रथमैव, सवेद्यमसदेचं चेति वेदनीयमूलप्रकृतेरुत्तरप्रकृतिद्वयं भवति । तत्राभिमतमिष्टमात्मनः कर्तुरुपभोक्तुर्मनुजदेवादिबन्मसु शरीरमनोद्वारेण सुखपरिणतिरूपमागन्तुकानेकमनोजद्रव्यक्षेत्रकाल वभवसम्बन्धसमासादितपरिपाकावस्थमतिबहुमेदं यदुदयाद्भवति तदाचक्षते । सवेदनीयमभिहितं, विपरीसमसझेदनीयम् । एवंविधार्थीनुवादि च भाष्यम् । 'योगतः' इति-पाठः। २'त्यानस्तिमित' इतिच-पाठः। ३'स्त्यानगृद्धि'इति घ-पाठा। ४ 'भावसम्बन्ध' इति ग-पाठः । बेदनीयस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy