SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ प्रकृतयः १३६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा-सवेद्यमसद्धेद्यं च वेदनीयं विभेदं भवति ॥९॥ री०–सद्यमित्यादि । सच्छब्दः प्राशस्त्ये । प्रशंसा चात्मनोऽभिमतविषयत्वम् । असच्छन्दस्तद्वैपरीत्ये । चशब्द उत्तरप्रकृतिसमुचितौ । वेदनीयं-वेद्यं विभेदं -द्विप्रकार भवति ॥९॥ सम्प्रति चतुर्थमूलप्रकृतेर्मोहनीयनाम्नः उत्तरप्रकृतिप्रपश्चाख्यानायाह सूत्रम्-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यात्रिद्विषोडशनवभेदाः। सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायौ अन या न्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाधाविंशतिरुत्तर- श्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजु - गुप्साः स्त्रीपुंनपुंसकवेदाः॥ ८-१०॥ टी-मोहनीयमूलप्रकृतेरष्टाविंशतिरुत्तरप्रकृतयः सङ्ग्रहभेदरूपाः सूत्रेणैव निर्दिष्टाः । मोहनीयशब्दः प्रत्येकमभिसम्बध्यते । दर्शनमोहनीयं चारित्रमोहनीयमिति सङ्ग्रहेण निर्देशः । पुनश्चारित्रमोहनीयमुत्तरभेदापेक्षया सङ्ग्रहेणैव निर्दिष्टम् । तद्भेदाख्यानं तु कषायवेदनीयं नोकषायवेदनीयमिति । दर्शनमोहनीय इत्यादिका आख्या यासामुत्तरप्रकृतीनां वास्तथा निर्दिष्टाः। तासां भेदप्रतिपादनार्थमाह-त्रिद्विषोडशनवभेदा इति । निर्देशकमेगैव ज्यादयो भेदा यासा तास्तथोक्ताः, दर्शनमोहनीयोत्तरप्रकृतिस्त्रिभेदा, चारित्रमोहनीयोसरप्रकृतिद्धिभेदा, तो चामू विकल्पो, कषायवेदनीयं षोडशभेदं, नोकषायवेदनीयं नवभेदमिति । एवमिति एवमेता उत्तरप्रकृतयोऽष्टाविंशतिः सूचिताः मोहनीयप्रकृतेः। ____ अधुना तु व्यादिभेदान् सूत्रेणैव प्रतिपादयति--सम्यक्त्वमिथ्यात्वतदुभयामीति । सम्यक्त्वं मिथ्यात्वं तदुभयमिति द्वन्द्वनिर्देशः । तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, तद्विपरीतं मिथ्यात्वं, तदुभयमिति सम्यग्मिथ्यातचश्रद्धानलक्षणम् । एवमेतत् त्रिविर्ष दर्शनमोहनीयं सूचितम् । कषायनोकषायाबित्यनेन चारित्रमोहनीयभेदद्वयाख्यानम् । अनन्तानुबन्धिप्रभृति कषायास्त एव मोहनीयम् । अकषाया हास्याभकषायस्यार्थः दयः, केवलाः कषायसम्पर्कशून्याः स्वकार्यासमर्था इत्यक्षायाः । सदैव हि कषायसंपृक्ताश्चारित्रमोहनीयव्यपदेश्याः, अल्पकषायकायत्वादकषाया इति। तब कषायमोहनीयभेदप्रदर्शनार्थमाह सूत्रशकलम्-अनन्तानुबन्धिकोषमानमायालोमा इति । अनन्तः संसारस्तमनुबन्धन्ति तच्छीलाश्चेत्यनन्तानुबन्धिनः क्रोधादयः । अविद्यमान प्रत्याख्यानं येषामुदयात् ते प्रत्याख्यानाः क्रोधादयः । अपरे पुनरावरणशन्दमत्रापि सम्बघ्नन्ति-अप्रत्याख्यानावरणा इति । अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति १'प्राशंस्ये' इति =-पाठः । २ 'रूपास्तत्रैव ' इति -पाठः । ३ ' सम्पर्काः' इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy