________________
सूत्र ) स्वोपज्ञभाष्य-टीकालङ्कृतम्
१३७ किमुत सर्वप्रत्याख्यानमिति । मूलगुणप्रत्याख्यानविधातवर्तिनः प्रत्याख्यानावरणाः क्रोधादयः। स्वल्पनिमित्तप्राप्तावपि युगपत् संचलनाः संज्वलनाः क्रोधादयः । एषां चानन्ता नुबन्ध्यादीनामेकैकस्य क्रोध-मान-माया-लोभाख्या विकल्पा भवन्ति, अनन्तानुबन्धिनः क्रोधादयः, एवमप्रत्याख्यानाः प्रत्याख्यानावरणाः संचलनाश्चेति । एमेते षोडशभेदाः कषायवेदनीयाः सूचिताः । हास्येत्यादिना सूत्रावयवेन नोकषायवेदनीयमाचष्टे नवभेदम् । तदष्टाविंशतिविधमावेदितं मोहनीयं कर्म सूत्रेणेति । अधुना भाष्यमनुस्रियते
भा०-त्रि द्वि-षोडश-नवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधःदर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा--मिथ्यात्ववेदनीयं, सम्यक्त्ववेदनीयं, सम्यग्मिथ्यात्ववेदनीयमिति ॥
टी-त्रि-द्वि-षोडश-नवभेदा यथाक्रममित्यादि । उक्तार्थ चैतभाष्यम् । दर्शनचारित्र-कषाय-नोकषायमोहनीयप्रकृतयः क्रमेण त्रि-द्वि-पोडश-नवभेदाः। अनेनाष्टाविंशतिवि धता प्रतिपादिता मोहनीयस्य । मोहनीयबन्ध इत्यादि। यथोक्त कारकप्रसिद्धो मोहशब्दो द्विप्र. कारो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्वार्थश्रद्धानं दर्शनं तन्मोहना दर्शनमोहनीयम् । प्राणातिपातादिविरतिश्चारित्रं तन्मोहनाचारित्रमोहनीयम् । तत्र दर्शनमोहनीयाख्यस्त्रिभेद इत्यादि । तत्र-तयोर्दर्शनचारित्रमोहनीययोर्दर्शनमोहनीयाख्यस्त्रिभेदः प्रक
म तिबन्धस्तावदुच्यते। तद्यथेत्यादिना तमेव दर्शयति-मिथ्यात्ववेदनीयदर्शनमोहनीयस्य वैविध्येऽपि बन्धैकता यस्य मित्यादि । तत्र दर्शनमोहनीयत्रैविध्ये सत्यपि बन्धो भवत्येकविध एव
: तत्त्वार्थाश्रद्धानलक्षणमिथ्यात्ववेदनीयस्य, न सम्यग्मोहनीयस्य, नापि सम्यम्मिथ्यात्वमोहनीयस्येति । यतो मिथ्यात्वपुद्गला एवैकरूपा बद्धाः सन्तः कोऽऽत्मनोऽध्यवसायविशेषात् सर्वथा शोधिता मिथ्याभावपरिणामं त्याजिताः सम्यगमिथ्यात्वपरिणति वा प्रापिताः सम्यक्त्व(सम्यग्मिथ्यात्व)व्यपदेशभाजो गवन्तीति ॥ न त्वेवंविधा एव बध्यन्ते, दरविशुद्धास्तु सम्यग्मिथ्यात्वन्यपदेशभाज इति । यथाऽऽह
" मिथ्यात्वस्य ह्युदये, जीवो विपरीतदर्शनो भवति ।
न च तस्मै सद्धर्मः, स्वदते पित्तोदये धृतवत् ॥ १॥" यथोक्तक्रमेण च मिथ्यात्वशुद्धौ ग्रन्थिभेदसमनन्तरं सम्यक्त्वावाप्तिः । ततश्च
"सम्यक्त्वगुणेन ततो विशोधयति कर्म तच्च मिथ्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥ १ ॥
१'किं पुनः सर्व' इति ङ-पाठः । २ 'एवमेतत् षोडशभेदं कषायवेदनाय सचित' इति च-पाठः । ३ 'स्वादु च' इति उपाठः, 'स्वदवे' इति च-पाटः। ४ 'छगणप्रमुखैः ' इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org