SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ यत् सर्वथा तत्र विशुद्धं तद् भवति कर्म सम्यक्त्वम्। मिश्रं तु दरविशुद्धं भवत्यशुद्धं मिथ्यात्वम् ॥२॥" मदनकोद्रवास्तु व्यवस्था अविशुद्ध-विशुद्ध-दरविशुद्धा इति दृष्टान्तीकृताः। मिथ्यात्वसम्यत्तवसम्यग्मिथ्यात्वेषु मिथ्यात्वोदयाच तत्त्वाश्रद्धा भवति, विपरीतदृष्टित्वात् । यथाऽऽह " ननु कोद्रवान् मदनकान भुक्त्वा नात्मवशतां नरो याति । शुद्धादी न च मुह्यति मिश्रगुणश्चापि मिश्रोद वा ॥१॥" स हि मिथ्यात्ववान् गुणगुणिनोरैक्यात् तदुदयानुगुणपरिणामवर्तित्वात् पीतमयह त्पूरभक्षणपित्तोदयाद् व्याकुलीकृतकरणपुरुषवद् यथाऽवस्थितार्थरुचिप्रतिघातकारिणा मिथ्यात्वेनान्यथैव प्रतिपद्यते । यथाऽऽह " 'मिच्छत्ततिमिरपच्छाइयदिही रागदोससंजुत्ता । धम्म जिणपनत्तं भव्वावि नरा न रोयंति ॥१॥ "मिच्छादिही जीवो उवइठं पवयणं न सद्दहइ । सद्दहइ असब्भावं उवइहं वा अणुवइडें ॥२॥" " पर्येमक्खरं च इकंपि जो न रोएइ सुत्तनिदिई । सेसं रोयंतोवि हु मिच्छादिही मुणेयव्यो ॥१॥" -सङ्ग्रहण्यां (गा० १६७) मुत्रं तु प्रतिविशिष्टपुरुषप्रणीतमेव श्रद्धागोचर इति । यथोक्तम् - " अर्हत्प्रोक्तं गणधरदृब्धं प्रत्येकबुद्धब्धं वा । स्थविरग्रथितं च तथा प्रमाणभूतं त्रिधा सूत्रम् ॥ १॥ श्रतकेवली च तस्मादधिगतदशपूर्वकश्च तौ स्थविरौ । आताज्ञाकारित्वाच्च सूत्रमितरत् स्थविरदब्धम् ॥ २॥" अहवा-" तं मिच्छत्तं जमसद्दहणं तच्चाण जाण भावाणं । संसइयमाभग्गहियं अणभिग्गहिगं च तिविहं च ॥१॥" -नवपदशतके (१) सर्वथाऽपि तत्र विशुद्धं तद्' इति ग-च-पाठः। २ मिश्रोऽपि' इति ग-पाठः, 'मिश्रादि' इति तु च-पाठः। ३ छाया मिथ्यात्वतिमिरप्रच्छादितदृष्टयो रागद्वेषसंयुक्ताः। धर्म जिनप्रज्ञप्तं भव्या अपि नरा न रोचन्ते ॥ मिथ्यादृष्टिर्जीव उपदिष्टं प्रवचनं न श्रद्दधाति । श्रद्दधात्यसद्भावमुपदिष्टं वाऽनुपदिष्टम् ॥ ४ 'मिच्छद्दिही नियमा' इति पाठान्तरं कर्मप्रकृती १६७ तमे पत्राङ्के। ५छायार्थ दृश्यता ९७ तमं पृष्ठम् । ६-७ 'दृष्टं' इति च-पाठः। छायाअथवा-तन्मिथ्यात्वं यद् अश्रद्धानं तभ्यानां जानीहि भावानाम । सांशयिकमाभिग्रहिकमनाभिग्रहिकं च त्रिविधं च ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy