SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सूत्रं १० ] स्वोपज्ञभाष्य–टीकालङ्कृतम् १३९ सम्यक्त्व सम्प्रति सम्यक्त्ववेदनीयं शुद्धपुद्गलप्रत्ययस्तत्त्वार्थश्रद्धानपरिणाम आत्मनः । स चौपशमिकादिभेदेन पञ्चधा प्राग् व्याख्यातः औपशमिक सास्वादन - वेदक- क्षायोपशमिक क्षायिकाख्यः । तत्रोपशान्ते दर्शनमोहसप्त के भवत्योपशमिकं सदैव सम्यक्त्व - प्रकार प्रपञ्चः मन्तर्मुहूर्त कालावच्छिन्नं, उपशमसम्यग्दर्शनकाले संयोजना उदयभावं षण्णामावलिकानामन्ते कस्यचिद् यान्ति । उपशमसम्यत्तत्वं हि नित्यमेवोपहन्यतेऽनन्तानुबन्धिभिः । यथाsss क्षायोपशमिकसम्यक्त्व पुद्गल चरमग्रासानुभवकाले वेदकसम्यक्त्वं, उदितमिध्यात्वपुद्रलक्षये अनुदितमिध्यात्वोपशमे च क्षायोपशमिकमुक्तं, क्षायिकं तु निरवशेष दर्शन मोहक्षये भवति सम्यक्त्वम् । न च विशुद्धबुद्धलक्षये तत्त्वार्थश्रद्धानलक्षणस्य परिणामस्याभावः । यथाऽऽह - “संयोजेनोदयश्चेत् स्यादास्यद्येतना (१) सम्यक्त्वम् । तस्य तु विशुद्धयतस्तदभावात् सम्यक्त्वमनवद्यम् ॥ १ ॥” सम्यग्मिथ्यात्व वेदनीयमधुनोच्यते । प्रथमतः सम्यक्त्वमुत्पादयन् करणत्रयं विधायोपशमसम्यत्तवं प्रतिपद्यते । ततो मिथ्यात्वदलिकं त्रिपुञ्जीत्वेन परिणमयति शुद्ध मिश्राशुद्धत्वेन । यथाऽऽह 46 " प्रक्षीणे तर्हि सम्यक्त्वे, सम्यग्दृष्टिः कथं मता ? | क्षयो द्रव्यस्य तत्रेष्टः, परिणामस्य न क्षयः ॥ १ ॥ " सम्यक्त्वगुणेन ततो विशोधयति कर्म तच मिध्यात्वम् । यद्वच्छकृत्प्रभृतिभिः शोध्यन्ते कोद्रवा मदनाः ॥ १ ॥ " सम्यग्मिथ्यात्वं च तद्वेदनीयं चेति, एवं पूर्वयोरपि द्रष्टव्यम् । इतिशब्दो दर्शनमोहनीयेयत्ताप्रतिपत्तये । दर्शनमोहनीयप्रकृतिबन्धमाख्याय सम्प्रति चारित्रमोहप्रकृतिबन्धाचिख्यासया जगाद - ० - चारित्रमोहनीयाख्यो द्विविधः । कषायवेदनीयं नोकषाय वेदनीयं भा० चेति । दी० - चारित्र मोहनीयाख्यो द्विविध इत्यादि । द्विविकल्पश्चारित्र मोह प्रकृतिबन्धः । कषायवेदनीयं नोकषायवेदनीयं चेति ॥ एतावद्भेदं मूलतश्चारित्रमोहनीयम् । यथाक्रमं तत्स्वरूपाख्यानायाह Jain Education International १' जनोदया श्रुतस्यावस्योद्यतना० ' इति छ- पाठः । २ 'मुच्चारयन्' इति ग-पाठः । कषाय वेदनीयचेति' इति ग-पाठः । For Personal & Private Use Only ३-४ ' दनीयो www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy