________________
१४०
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः मा०-तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा-अनन्तानुबन्धी क्रोधो मानो माया लोभः, एवमप्रत्याख्यानकषायः प्रत्याख्यानकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोभाः षोडशभेदाः॥
टी०-तत्रेत्यादि । तयोश्चारित्रमोहभेदयोः कषायवेदनीयाख्यस्तावदयं षोडशभेदः। तद्यथेत्यनेन भेदानावेदयते-अनन्तानुबन्धी क्रोध इत्यादि । अनन्तः संसारो नारकं-तियेङ्-मनुज-देवजन्मजरामरणपरम्परालक्षणः तदनुबन्धादनन्तानुबन्धिनः संयोजनाच क्रोध-मान-माया-लोभाः। तत्र क्रोधोप्रीतिलक्षणः। मानो गर्वः। माया शाख्यम् । लोभो गाय तृष्णेत्यनान्तरम् । आह च
"संयोजयन्ति यन्नग्मनन्तसङ्ख्यैर्भवैः कषायास्ते ।
संयोजनतानन्ताऽनुबन्धिता वाऽप्यतस्तेषाम् ॥ १॥ अनन्तानुबन्धिनां च तावत् पर्वतराजिशैलस्तम्भघनवंशमूलकृमिलाक्षारागोदाहरणानि, एवमप्रत्याख्यानावरणकषायश्चतुर्धा क्रोधादिभेदेनेत्यतिदिश्यते। प्रत्याख्यानं द्विविधं-देशविरतिलक्षणं सर्वविरतिलक्षणं च । तत्र देशविरतिलक्षणमल्पं तदावरणं कषायोप्रत्याख्यानावरणकषायः, सामर्थ्यात् अपिशब्दः समुच्चयार्थी लभ्यते । ये स्वल्पमावृण्वन्ति प्रत्याख्यानं ते सर्वविरतिलक्षणमाघृण्वन्त्येवेति नास्ति चित्रम् । कषाय इति जातिविवक्षायामेकवचननिर्देशः । आह च
" आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य ।
तेनाप्रत्याख्यानावरणास्ते निर्विशेषोत्या ॥१॥" नञ् हि सोऽल्पार्थः, उपमार्थो वा नञ्, प्रत्याख्यानावरणवदप्रत्याख्यानावरणः ।
यथोक्तम्
"प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् ।
तवैब्राह्मणवचने तत्सदृशः पुरुष एवेष्टः ॥ १॥" एषामुदये सम्यक्त्वलाभः सर्वदेशविरतिलक्षणं प्रत्याख्यानं नास्ति । प्रत्याख्यानावरकषाय इति तथैवातिदेशः । प्रत्याख्यानशब्देनात्र सर्वविरतिपरिग्रहः तदावरणः। प्रतिशब्दः प्रतिषेधवचनः। प्रतिषेधस्याख्यानं प्रकाशनमाचार्यादिसन्निधौ भावतः 'सर्वान् प्राणिनो न हन्मि यावज्जीवं' इत्यादि प्रत्याख्यानं, तदेवंप्रकारं स्थगयन्तीति प्रत्याख्यानावरणाः । यथाऽऽह
" सर्वप्रत्याख्यानं येनावृण्वन्ति तदभिलपतोऽपि ।
तेन प्रत्याख्यानावरणास्ते निर्विशेषोक्त्या ॥१॥" १ 'कषायप्रत्याख्यानकषायसंज्वलनकषायवेदनीयं चेति लषायवेदनायाख्यः षोडशभेदः' इति क-ग-पाठः। २ अनेन सम्भाव्यते यदुतासीत् कश्चित् कर्मविषयकप्रन्थो योऽधुना नोपलभ्यते। ३ 'सम्यक्त्वा वाइति ग-पाठचिन्तनीयः। ४'तत्तब्राह्मवचने' इति च-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org