________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१४१
प्रत्याख्यानपरिणामजन्म विघातकारित्वात् प्रत्याख्यानावरणाः, न तु सत एव प्रत्यास्म्मानस्येति वाक्यार्थः । तथाचाहुः पूज्याः (श्रीजिन भद्रगणिक्षमाश्रमणाः ) - ""णासंत सावरणं ण सओऽभव्वाइविरमणपसंगा । पचक्खाणावरणा तम्हा तस्संभवावरणा ॥ १ ॥ उद विरइपरिणई न होइ जेसिं खयाइओ होइ । पचक्खाणावरणात इह जहा केवलावरणं ॥ २ ॥”
- विशेषावश्यके ( गा० १२३६ - १२३७ )
तदुदयवर्तिनश्च द्वादशविधगृहधर्मावाप्तिः । यथाऽऽह— " श्रावकधर्मो द्वादशभेद: संजायते ततस्तस्य । पञ्चत्रिचतुः संख्याव्रत गुण शिक्षामयः शुद्धः || १ ||" संज्वलनकषाय स्वरूपोपपादनायाह -संज्वलनकषाय इति । समस्तपापस्थानविरतिभाजमपि यति दुःसहपरिषहसंपाते युगपत् संज्वलयन्तीति संज्वलनाः । यथाऽऽह - " संज्वलयन्ति यतिं यत् संविग्नं सर्वपापविरतमपि ।
तस्मात् संज्वलना इत्यप्रशमकरा निरुच्यन्ते ॥ १ ॥ "
सूत्र १० ]
इतिशब्दः कषायवेदनीयस्येयत्तामाह । एकश इति । एकैकस्य अप्रत्याख्यान - प्रत्याख्यानावरण-संज्वलनकषायस्य क्रोधादयो भेदात्वार इति । तत्राप्रत्याख्यान क्रोधाद्युदाहरणानि भूराज्यस्थिमेषशृङ्गकर्दमरागाः प्रत्याख्यानावरण क्रोधादेः रेणुराजिकाष्टगोमूत्रमार्गखञ्जनरागाः संज्वलन क्रोधादेर्जलराजिं तिनिशलवालेहहरिद्रारागाः । एवमेते षोडशभेदाः कषायवेदनीयस्येति । प्रस्तावप्राप्तं नोकषाय वेदनीयमुच्यते
भा० - नोकषाय वेदनीयं नवभेदम् । तद्यथा - हास्यं, रतिः, अरतिः, शोकः, भयं, जुगुप्सा, पुरुषवेदः, स्त्रीवेदः, नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् ॥
टी० – नोकषायवेदनीयं नवभेदमिति । कषायैकदेशत्वात् कषायविशेषत्वाद् वा नोकषाया हास्यादयः । मिश्रार्थो वा नोशब्दः । कषायसहकृता एते स्वकार्यनिवर्तन प्रत्यलाः, नमीषां पृथक् सामर्थ्यमस्ति । यद्दोषश्च यः कषायस्तत्सहचारिण एतेऽपि तत्तद्दोषा एव भवन्ति । एतदुक्तं भवति - अनन्तानुबन्ध्यादिसहचरितास्तत्स्वभावका एव जायन्ते, तस्मादेतेऽपि चरणोपघातकारित्वात् तत्तुल्यतयैव ग्राह्याः । तथाऽन्येनाप्यवाचि - कषाय सह वर्तित्वात् कषायप्रेरणादपि । हास्यादिनवकस्योक्ता, नोकषायकषायता ॥ १ ॥ "
46
१ छाया
नासत आवरणं न सतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणाः ततस्तत्सम्भवावरणाः ॥ उदये विरतिपरिणतिः न भवति येषां क्षयादितो भवति । प्रत्याख्यानावरणास्त इह यथा केवलावरणम् ॥
९ ' तृणशलाकाव' इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org