________________
१४२ तत्वार्थाधिगमसूत्रम्
[ अध्यायः ८ तद्यथेत्यनेन तत्रापि नोकषायान् स्वरूपेणाख्यातुमुपक्रमते-तत्र हास्यनोकषायमोहोदयात् सनिमित्तमनिमित्तं वा हसति स्मयते रङ्गावतीर्णनटवत् । रतिमोहोदयाद् बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः आसक्तिः । इष्टेषु च शब्दादिविषयेषु । अरतिमोहोदयादेतेष्वेवाप्रीतिररतिः। शोकमोहोदयात् परिदेवते हन्ति च स्वमस्तकाद्यवयवान् निःश्वसिति रोदिति स्तनति लोठति भुवः पीठ इत्यादि । भयमोहोदयात् त्रस्यत्युद्विजते वेपत इत्यादि । जुगुप्सामोहनीयोदयात् शुभाशुभद्रव्यविषयं व्यलीकमुपजायत इत्यादि । पुरुषवेद्मोहोदयात् अनेकाकारासु स्त्रीष्वभिलाषः आम्रफलाभिलाष इवोद्रिक्तश्लेष्मणः, तथा सङ्कल्पजास्वपीत्यादि। स्त्रीवेदमोहोदयात् नानाकारेषु पुषेष्वभिलापः, सङ्कल्पजेषु चेत्यादि । नपुंसकवेमोहो बहुरूपः, तदुदयात् कस्यचित् स्त्रीपुरुषद्वयविषयोऽप्यभिलाषः किल प्रादुर्भवति, धातुद्वयोदये मार्जितादिद्रव्याभिलाषवत्, कस्यचित् पुरुषेष्वेवाभिलाषः, सङ्कल्पजविषये चानेकरूप इत्यादि। इतिकरणो नोकषायेयत्ताप्रदर्शनार्थः। उक्तमेवमेतन्नोकषायवेदनीयं नवप्रकारम् । एषां पुरुषादिवेदानां त्रयाणामपि तीब्रादिपरिणामसंसिद्धयर्थ दृष्टान्तानाविश्चिकीर्षुराह___भा०-तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्तीति । एवं मोहनीयमष्टाविंशतिभेदं भवति ॥
टी०-पुरुषवेदादीनामिति क्रमनियममाचष्टे । तृणादयः कृतद्वन्द्वाः प्रत्येकमनिशब्देन सहाभिसम्बध्यन्ते । निदर्शनानि निदय॑न्त इति दृष्टान्ता भवन्ति । एतानि च कृतसन्निवेशक्रमात् । इतिशब्दोऽन्यानेकनिदर्शनप्रतिपत्त्यर्थः । तत्र पुरुषवेदमोहानेभृशं ज्वलतः समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते, समासादिततृणपुलकस्येव नातीष स्थास्नुरनुबन्धः। स्त्रीवेदजातवेदसस्तु बहुतरकालावस्थायिनः सम्भाषणस्पर्शनेन्धनाभिवर्धितस्य चिराय प्रशमो जायते, दृढतरखादिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनस्येव । नपुंसकवेदमहामोहसप्तार्चिपस्तु समासादितोदयस्य महानगरस्य दाहदहनतुल्यस्य करीषकशानोरिवान्तर्विजम्भमाणदीप्ततर. कणनिकरस्य बहुतरकालेऽस्य प्रशमो भवति । सम्प्रत्युपसंहरति-एवमित्यादि। उक्तेन प्रकारेण द्वित्रिषोडशनवभेदलक्षणेनाष्टाविंशतिभेदलक्षणेनाष्टाविंशतिभेद मोहनीयमुक्तम् ॥
संम्प्रत्यान्तानुबन्ध्यादिकषायाणामुदयेऽयमात्मा सम्यक्त्वादिसामायिकानां क किं लभते किं वा न लभत इति प्रतिपादयिषुराह
भा०-अनन्तानुबन्धी सम्यग्दर्शनोपवाती । तस्योदयात् अनन्तानुबन्ध्यादि- सम्यग्दर्शनं नोत्पद्यते, पूर्वोत्पन्नमपि च प्रतिपतति । अप्रत्याकषायाणामुदये
ख्यानकषायोदयाद विरतिनं भवति । प्रत्याख्यानावरणकषामुपघातः
योद्याद् विरताविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति।
संज्वलनकषायोदयाद् यथाख्यातचारित्रलाभो न भवति ॥ १ 'कारीष ' इति च-पाठः । २ ‘साम्प्रतम् ' इति ङ-पाठः । ३ ' दयाद्धि' इति घ-पाठः ।
सम्यग्दर्शनादीना.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org