________________
सूत्रं १० ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
१४३
I
टी० - अनन्तानुबन्धीत्यादि । अनन्तानुबन्धि कषायोदयः सम्यग्दर्शनमुपहन्ति, तद्विधपरिणामोत्पादमेव निरुणद्धीत्यर्थः । एतदेव स्पष्यति - तस्योदयाद्धि सम्यग्दर्शनं नोटप्रागवाप्तमपि प्रतिपततीति । अप्रत्याख्यानेत्यादि । सर्वदेशलक्षणाया विरतेरभावः । प्रत्याख्यानेत्यादि देशविरतिर्भवति । उत्तमचारित्रं सर्वस्मात् प्राणातिपाताद् विरमामीत्येवंरूपं तस्य लाभो न भवतीति । तुशब्दोऽवधारणार्थः । न जातुचिदेव भवतीति । संज्वलनेत्यादि । संज्वलनकर्षायोदये त्वकषायचारित्रलाभो नास्ति । पूर्वोद्दिष्टसामायिकेभ्योऽनन्तरमथाख्यातः क्रियाविशेषः । अथाख्यातचारित्रं साक्षादनन्तरकारणं मुक्तेरिति । यथाख्यात चारित्रं वा, येन वा प्रकारेण यथा भगवद्भिराख्यातमकषायं चारित्रं भवतीति । सर्वथा कषायाः संसारे हिण्डयन्ति जीवमिति काका प्रतिपादयति । यतस्तेषामुदये प्रतिवि - शिष्टज्ञानक्रियावाप्तिरेव न समस्तीति । उपशान्तक्षीणकषायस्य सतो हि यथाख्यातमिष्यते । तत्राप्युपशान्तकषायी कदाचित्पातेऽपि विशुद्धिस्थानात् कुतश्चिन्न शक्यते । क्षीणकषायस्य तु नास्ति प्रतिपातः । शास्त्रे पर्यायशब्दैरपि क्रोधादिकषायाणां व्यवहारोऽस्तीत्येतत् प्रदर्शनम् - भा०- क्रोधः कोपो रोषो द्वेषो भण्डनं भाम इत्यनर्थान्तरम् । क्रोधस्य पर्यायाः तद्भावानुसारीणि तस्या (१)स्य क्रोधस्य तीव्र-मध्य-विमध्य-मन्दभावाश्रितानि निदनिदर्शनानि च र्शनानि भवन्ति ।
टी. - क्रोध इत्यादि । क्रोधनं क्रोधोऽप्रीतिः । कोपनं कोपः पूर्वावस्थातोऽन्यथा परिणामः । रोषणं रोषः तत्परिणामेनारूषितत्वादात्मनः । द्वेषणं द्वेषः तत्परिणामस्य वचनद्वारेण प्रकाशनात् निर्देशनात् । भण्डनं कलहः । भाम इति क्रोधविशेष ईर्ष्यालक्षणः । एवमादयः शब्दाः क्रोधार्थप्रतिपादकत्वादेकार्थाभिधायित्वादनर्थान्तरमेवेति ||
भा०—तद्यथा - पर्वतराजिसदृशो भूमिराजिसदृशो वालुकाराजिसदृश उदकराजिसदृश इति ।
टी० - अधुनाऽनन्तानुबन्ध्यादिभेदस्यैकैकस्य क्रोधादेस्तीवादि भावदर्शनार्थं निदर्शनान्याह भाष्यकारः-तद्यथेत्यादिना । चतुर्णामपि क्रमेणानन्तानुबन्ध्य-प्रत्याख्यान- प्रत्याख्यानावरण-संज्वलनानां क्रोध - मान- माया लोभानामेकैकस्य चातुर्विध्यं दर्शयति - पर्वत ( राजिसदृश इत्यादि । पर्वतराज्या सदृशः। पर्वतः पाषाणपुञ्जस्तदेकदेशोऽप्युपचाराच्छिलादिविभागः पर्वतः, तत्र राजि:-भिदा पर्वतराजिः तया सदृशः पर्वतरा जिसदृशः । शिलायां राजिरुत्पन्ना यावत् शिलारूपं तावदवतिष्ठते, न च तस्याः सन्धानमस्ति, एवमनन्तानुबन्धी क्रोध उत्पन्नो भवापेक्षया यावत् तत्र भवे जीवति तावदप्यनुवर्तते, न तस्यास्त्युपसंहरणोपायः, तदनु मरणाच्च भूयसा नरकमेति । अप्रत्याख्यानस्तु भूमिराजिसदृशः संवत्सरमात्रकालानुबन्धी । भूमौ हि
१' प्रागेतनमपि ' इति पाठः । २ ' कषायत्रये ' इति पाठः । ३ ' नास्तीत्यतः प्रदर्शनम्' इति च पाठः । ४ ' पेक्षया तत्र' इति च - पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org