________________
१४४
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ८
राजदूता वर्षास्ववश्यं तया सा निधनमायाति । क्रोधोऽप्येवमुत्पन्नो वर्षाभ्यन्तरे प्रशाम्यतीति ।। प्रत्याख्यानावरणस्तु वालुका राजिसदृशः । वालुकायां हि राजिरुत्पन्ना प्रकर्षतश्चतुर्मासाभ्यवरे भूयः सन्धत्ते । धोऽप्येवं प्रत्याख्यानावरणश्चातुर्मासाभ्यन्तरे नियमेनोपशाम्यतीति ॥ संज्वलनक्रोधाग्निः समुद्भूतः पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यायतीति उदकराजिसदृश इति समाख्यायते । अस्य च उदकराजिसंदृशात् पक्षमात्र कालसंसूचकं विज्ञेयम् ।
भा०-- तत्र पर्वतराजिसदृशो नाम । यथा प्रयोगवित्र सामिश्रकाणामन्यतमेन हेतुना पर्वते राजिरुत्पन्ना नैव कदाचिदपि संरोहति, एवमिष्टवियोजनानिष्टयोजनाभिलषिताला भादीनामन्यतमेन हेतुना यस्योत्पन्नः क्रोधः आ मरणान व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयस्तीत्रानुशयोऽप्रत्यवमर्शश्च भवति स पर्वतराजिसदृशः । तादृशं क्रोधमनुमृता नरकेषूपपत्तिं प्राप्नुवन्ति ॥
टी०. ० - तत्र पर्वतराजिसदृशो नामेत्यादिना ग्रन्थेनोदाहरणानि भावयति । प्रयोगः पुरुषव्यापारः । विस्तसा-स्वभावः । मिश्रकरणादुभयपरिग्रहः पुरुषव्यापारस्वभावाभ्यामिति । एषां त्रयाणामन्यतमेन हेतुनेति सम्बन्धः । सम्प्रति क्रोधोत्पत्तेर्निमित्तमाख्याति- इष्टार्थवियोजनादनिष्टार्थसंयोजना दभिलषिताला भादित्यादीनां कारणानामन्य-तमेन हेतुना । यस्योत्पन्नः क्रोध इत्यादि । भवान्तरमप्यनुबध्नाति । निरनुनय इति । अनुनयः परचाटुकरणादिक्रिया तदभावान्निरनुनयः । अप्रत्यवमर्श इति । अविद्यमान - पश्चात्तापपरिणामः । शेषं गतार्थम् ।
भा०-- भूमिराजिसदृशो नाम । यथा भूमेर्भास्कररश्मिजालादात्तस्नेहाया
तया राजिरुत्पन्ना वर्षापेक्षसंरोहा परमप्रकृष्टाऽष्टमासस्थितिर्भवति, एवं यथोक्तनिमित्तो यस्य क्रोधोऽनेकवर्षस्थायी दुरनुनयो भवति, स भूमिराजिसदृशः । तादृशं क्रोधमनुस्मृताः तिर्यग्योनावुपपत्तिं प्राप्नुवन्ति ॥
टी० - भूमिराजिसदृशो नामेत्यादि अप्रत्याख्यानकषायानाश्रित्योच्यते, आतस्नेहाया इति गृहीतापीतस्नेहायाः, वायुना चाभ्याहताया इत्यनेककारणतां भूमिराजेरावेदयते । जघन्येनाष्टमासस्थितिरुत्कर्षेण वर्षस्थितिरिति । एवं यथोक्तेत्यादिना दृष्टान्तेन दार्शन्तिकमर्थं सभीकरोतीति । शेषं सुज्ञानम् ॥
भा०- - वालुकाराजिसदृशो नाम । यथा वालुकाय काष्ठ-शलाका - शर्करादीनामन्यतमेन हेतुना राजिरुत्पन्ना वाय्वीरणाद्यपेक्षसंरोहा अर्वाग् मासस्य सं
१ ' विध्यायतीति' इति ग-च-पाठः । २' सादृश्यं इति ग-पाठः । ३ ' पर्वतराजि०' इति घ- पाठः । 'व्ययं गच्छति' इति घ-पाउः । ५ 'सृता' इति ग-पाठः । ६' प्रयोगः व्यापारः ' इति च-पाठः । " पक्षादु ' इति पाठः । ८ ' विधस्थानीयो' इति घ-पाठः ।
९ ' कं कारणं' इति कु-च-पाठः ।
·
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org