________________
सूत्रं १० ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
१४५
रोहति एवं यथोक्तनिमित्तो यस्य क्रोधोऽहोरात्रं पक्षं मासं चातुर्मास्यं संवत्सरं Satsang स वालुकाराजिसदृशो नामे । तादृशं क्रोधमनुसृता मनुष्येषूपपत्तिं प्राप्नुवन्ति ॥
टी० – वालुका राजिसदृशो नामेत्यादि सुज्ञानम् । जघन्येनाहोरात्रं उत्कर्षेण संवत्सरपरिणामोऽपीति । शेषं गतार्थम् ॥
भा०
- उदकराजिसदृशो नाम । यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यत - मेन हेतुना राजिरुत्पन्ना द्रवत्वा पामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमितोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसंदृशः । तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति ॥
टी० - उदकराजिसदृशो नामेत्यादि प्रायः सुज्ञानम् । विदुष इति क्रोधपरिणमाभिज्ञस्य । प्रत्यवमर्शः - पश्चात्तापः हो दुहुकयमित्यादिकः । शेषं सुज्ञानम् ॥
भा० - येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति ॥ टी० - येषामित्यादि । अनन्तानुबन्ध्यादिचतुर्विधक्रोधक्षपणान्मुक्तिप्राप्तिरवश्यंभा
विनीति |
सम्प्रति मानचातुर्विध्यप्रदर्शनायाह
मानशब्दस्य
भा० - मानः स्तम्भः गर्वः उत्सेकः अहङ्कारः दर्पः मदः स्मय पर्यायाः इत्यनर्थान्तरम् ||
डी० - मान इत्यादि । सर्वदाऽऽत्मपूजाकाङ्क्षित्वात् मानः । स्तम्भनात् स्तम्भः अवनतेरभावात् । गर्यो जात्यादि । । उत्सेको ज्ञानादिभिराधिक्येऽभिमान आत्मनः । अहङ्कारोऽहमेव रूपसौभाग्यसम्पन्न इति । दर्पो बलकृतः । मद्यादिमदवदनाला पदर्शनात् मदः । परापराधसहनप्रायत्वात् स्मयः । सर्व एते मानविशेषा इत्यतोऽनर्थान्तरमिति ।
क्रोधस्येवास्यापि तीव्राविभावप्रदर्शनायाह
भा०- तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तथा - शैलस्तम्भसदृशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैर्व्याख्यातम् ॥
टी० – तस्यास्येत्यादि । तस्येति पूर्वोद्दिष्टस्य । अस्येति पर्यायभेदेन निर्दिष्टस्य । आदिग्रहणात् मध्यो मन्दश्च भावः - आत्मनः परिणतिविशेषः । अनन्तानुबन्ध्यादिषु क्रमेण शैलस्तम्भसदृशेत्याद्युदाहरणानि योज्यानि । एषामित्यादिना निर्दिशति । उपसंहार उप
१ 'क्रोधः' इत्यधिको घ-पाठः । २ ' निमित्तो यस्य ' इति घ- पाठः । ३ ' मर्शिनो' इति घ- पाठः । ४' णामैवस्य' इति ङ-पाठः । ५ ' हा दुकय' इति ङ-पाठः । ६' प्राप्नुवन्ति ' इति घ-पाठः । ७' लतास्तम्भ' इति
घ-पाठः ।
१९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org