________________
१४६
[ अध्यायः ८
नयः । यथा शैलस्तम्भस्तथाऽनन्तानुबन्धीत्यादिक्रमेण । तस्मात् कुतश्चिनिमित्तादुत्पन्नो मानः आ मरणान्न व्यपगच्छति जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्च भवति स शैलस्तम्भसदृशः । तादृशं मानमनुसृत्य नरकेषूत्पत्तिं प्राप्नुवन्तीति निगमनग्रन्थः । चशब्दः समुच्चितौ । एवमस्थिस्तम्भसदृश इत्यादिष्वपि यथायोगमुपनयनिगमने वक्तव्ये ॥
मायाशब्दस्य पर्यायाः
तस्त्वार्थाधिगमसूत्रम्
भा० – माया प्रणिधिः उपधिः निकृतिः आचरणं वञ्चना दम्भः कूटम् अतिसन्धानम् अनार्जवमित्यनर्थान्तरम् ॥
--
टी० - माया प्रणिधिरित्यादि । मीयतेऽनया जन्तोस्तिर्यग्योन्यादिजन्मेति माया । प्रणिधिः प्रतापरिणतावासक्तिः प्रणिधानं । बाह्यचेष्टयोपधीयते बाह्यत इत्युपधिरन्यथापरिणामश्चित्तस्य । निष्क्रियतेऽनया परः परिभूयत इति निकृतिः । आचर्यते-अभिगम्यते भक्ष्यते वापरस्तयोपायभूतये त्याचरणम् तथाच वृक- मार्जार-गृहको लिकादयः प्रसिद्धाः । परो विप्रलभ्यते यया सा वञ्चना । दम्भनं दम्भो वेषवचनाद्यनुमेयः । कूट्यते - दह्यते अमुना परः परिमाणान्तरेणेति कूटं, सवर्ग्रहणं वा कूटं तद्वत् परिणामः । अतिसन्धीयतेऽनेन पर इति अतिसन्धानं अतीवानुप्रविश्य सन्धानमन्तरङ्गताप्रदर्शनं ततो विनाशः । ऋजोर्भावः आर्जवं तद्विपरीतं अनार्जवम् - कायमनोवक्रता । इतिशब्द एवार्थे । एवमेतान्येकार्थाभिधायी नि नामानीति ॥
भा०- तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा-वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसहशीति । अत्राप्युपसंहार निगमने क्रोधनिदर्शनैर्व्याख्याते ॥
टी० - तस्या इत्यादि गतार्थम् । वंशकुडङ्गो-वंशमूलमतिकुटिलं ऋजुकर्तुमशक्यं उपायखेनापि । " शेषं गतार्थं प्रायः । निर्लेखनं वर्धक्यवलेखनीधारोल्लिखितमत्यन्त कुटिलम् । अत्रापीत्यादि गतार्थम् ॥
भा०- लोभो रागो गार्ध्यं इच्छा मूर्छा स्नेहः काङ्क्षाऽभिष्वङ्ग लोभशब्दस्य पर्यायाः इत्यनर्थान्तरम् ॥
aro - लोभो राग इत्यादि । लुभ्यतेऽनेन जीव इति लोभः । आत्मरञ्जनाद् राः । प्रष्टवर्ध्य अभिरक्षणादि कार्य गृद्धिलक्षणम् । इच्छाऽभिलाषस्त्रैलोक्यविषयः । मूर्च्छा प्रकर्षप्राशा मोहवृद्धिः । स्त्रिद्यत्यनेनेति स्नेहः पितृपुत्रपत्न्यादिषु प्रीतिविशेषः । भविष्यत्कालोपादानविषया काङ्क्षा | अभिष्वङ्गो बाह्याभ्यन्तरोपकरण विषयसुखे राग आसक्तिः । शेषं पूर्ववत् ॥
Jain Education International
१ ' व्ययं गच्छति ' इति च पाठः । २ ́ ऽपचितत्वाधीयत इति ङ-पाठः । ३ ' गुरुणनं (?) वा ' इति ६- पाठः । ४ ' कुणरादृशी ' इति घ- पाठः । ५ ' शे५ । गताः प्रायः' इति च पाठः । ६' प्राप्तेषु' इति - पादः । ७ यामुखः तङ्गः सक्तिः ' इति ग-व-पाठः ।
For Personal & Private Use Only
www.jainelibrary.org