________________
सूत्र ११) स्वोपज्ञभाष्य-टीकालङ्कृतम्
१४७ मा०-तस्यास्य लोभस्य तीव्रादिभावाषितानि निदर्शनानि भवन्ति । तन्यथा-लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जनरागसहशः, हरिद्राराग. सहश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनाख्याते ।।
टी०-लाक्षारागसदृश इत्यादि । अनन्तानुवन्ध्यादयः क्रमेण योज्याः । शेषं गतार्थम् ॥
भा०-एषां क्रोधादीनां चतुर्णा कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो क्रोधादीनां सच भवन्ति । तद्यथा-क्षमा क्रोधस्य, मार्दवं मानस्य, आर्जवं रणोपायाः मायायाः, सन्तोषो लोभस्योति ॥१०॥
टी.-एषां क्रोधादीनामित्यादि । प्रकृतानुपयोगित्वादसम्बद्ध इवायं लक्ष्यते ग्रन्थः । मोहनीयोत्तरप्रकृतिस्वरूपाख्यानमारब्धं, तत्र क्रोधादिप्रत्यनीकाः क्षमादय इति कः प्रस्तावः १ । उच्यते-मोहनीयप्रधानानि हि कर्माणि, सर्वदेशोपघातद्वारेण जन्तोर्नरकादिभवप्रपञ्चप्रापणे विजृम्भन्ते । 'मोहस्तत्र तावत् कपायजनितः । कषायवशाद्धि बन्धस्थितिविशेषः सर्वदुःखावाप्तिश्च । यथोक्तम् ( उपदेशमालायाम् )
"ज अइदुक्खं लोए जं च सुहं उत्तमं तिहुयणमि ।
तं जाण कसायाणं वुढिक्खयहेउयं सव्वं ॥१॥" अतस्तत्संवरणोपायभूताः क्षमादयो भाष्यकारेणोपन्यस्ताः सततमेतेऽभ्यसनीयाः कर्मणां लाघवमिच्छता मुमुक्षुणा । भाष्यं गतार्थप्रायम् । प्रत्यनीकाः शत्रव उच्यन्ते पुरुषाः । भूतशब्द उपमानार्थः । शत्रव इवोच्छेदनसाधात् । एतदेव स्पश्यति-प्रतिघातहेतवो भवन्तीति । अत्र च मिथ्यादर्शनमाद्यकषायाश्च द्वादश एनेघातिन्यः प्रकृतयः सचलन
नोकषायास्तु देशघातिन्यः ॥ ननु च सूचनात मुत्रमिति लघु विधेयं सूत्रलाघव
सूत्रम् । तच्चैवं भवति-दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्या परामर्शः
द्वित्रिषोडशनवमेदा इत्येव विवक्षितार्थसंग्रहः स्यात् । तत्रेदमुक्तम्" दुर्व्याख्यानो गरीयांच, मोहो भवति बन्धनः ।
न तत्र लाघवादिष्टं, सूत्रकारेण दुर्वचम् ॥” । इति ॥१०॥ सम्प्रति क्रमप्राप्तस्यायुष्ककर्मणश्चत्वार्युत्तरप्रकृतिस्वरूपाण्यभिधित्सुराह--
सूत्रम्-नारक-तैर्यग्योन-मानुष-दैवानि ॥ ८-११ ॥ १. मोहतन्त्रता च कपायजनिता ' इति च-पाठः । २ छाया--
यद अतिदुःखं लोके यच सुखमुत्तमं त्रिभुवनेऽपि । तद्विद्धि कषायाणां वृद्धिक्षयहेतुकं सर्वम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org