SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४८ आयुषणे तत्त्वार्थाधिगमसूत्रम् [अध्यायः ८ दी-नारकादीनि कृतद्वन्द्वानि प्रथमाबहुवचनेन निर्दिष्टानि । यस्योदयात् प्रायोग्यप्रकृतिविशेषानुशायीभूत आत्मा नारकादिभावेन जीवति यस्य च क्षयान्मृत उच्यते तदायुः। आह च--- " स्वानुरूपास्रवोपात्तं, पौद्गलं द्रव्यमात्मनः । जीवनं यत् तदायुष्क-मुत्पादादेस्य जीवति ॥ १॥ आयुषचानादय उपग्राहकाः प्रथमबद्धस्येति । तस्यैवम्भूतस्य कर्मण उत्तरप्रकृतिचतुष्टयं वर्ण्यते भा०-आयुष्कं चतुर्भेदम्-नारकं, तैर्यग्योनं, मानुषं, दैवमिति ॥ ११ ॥ टी-आयुष्कं चतुर्भेदमित्यादि भाष्यम् । आनीयन्ते शेषप्रकृतयस्तस्मिनुप भोगाय जीवेनेत्यायुः, शाल्योदनादिव्यञ्जनविकल्पा एव कांस्यपात्राधारप्युत्पत्त्यर्थः है भोक्तुः परिभोगाय कल्प्यन्ते, आनीयते वाऽनेन तद्भवान्तर्भावी प्रकृतिगण - इत्यायुः रज्जुबद्धेक्षुयष्टिभारकवत् , आयतते वा शरीरधारणं प्रतिबन्ध इत्यायुर्निगडादिवत् । आयुरेवायुष्कम्, चतुर्गतिकत्वात् संसारस्य चतुर्भेदम् । तद्भेददर्शनार्थमाइ-नारकमित्यादि । तत्र नरका उत्पत्तियातनास्थानानि पृथिवीपरिणतिविशेषास्तसम्बन्धिनः सत्त्वा अपि तात्स्थ्यानरकास्तेषामिदमायुनोरकम् । तियेग्योनय एक-द्वि-त्रि-चतु:पश्चेन्द्रियास्तेवामिदं तैयेग्योनम् । मनुष्याः संमृर्छन-गर्भजास्तेषामिदं मानुषम् । देवानां भवनवास्यादिभेदानामिदं दैवम् । इतिशब्दः आयुःप्रकृतीयत्ताप्रतिपत्तये ॥ ११ ॥ सम्प्रति नामकर्मोत्तरप्रकृतिभेदाख्यानायाहसूत्रम्-गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसेवातसंस्थानसं हननस्पर्शरसगन्धवर्णानुपूर्व्यगुरुलघूपघातपराघातातपोद्योउत्तरप्रकृतयः तोच्छासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसू क्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्वं च ॥८-१२॥ टी-गतिजातीत्यादिप्रागुद्दिष्टा द्वाचत्वारिंशत् पिण्डभेदा नामकर्मणस्तत्प्रतिपाद नार्थ सूत्रम् । नमयति-प्रापयति नारकादिभावान्तरणि जीवमिति नाम । नामशः अथवा जीवप्रदेशसम्बन्धिपुद्गलद्रव्यविपाकसामर्थ्याद् यथार्थसंज्ञा । नमयति-प्रहयेतीति नाम यथा शुक्लादिगुणोपेतद्रव्येषु चित्रपटादिव्यपदेशप्रवृत्तिनियतसंज्ञाहेतुरिति । तत्र गतिनाम चतुर्विधम् । जातिनाम पञ्चविधम् । शरीरनाम नामकर्मण १ सहायीभूत' इति च-पाठः । २ 'यस्य ' इति कु-च-पाठः। ३ 'बद्ध ' इति उ-पाठः । ४ 'सहयातन...स्पर्शनरस' इति ग-पाठः । ५ 'प्रज्वलयति ' इति ङ-पाठः । ६ 'पश्वविधं ' इति अ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy