________________
सत्र १२] स्वोपज्ञभाष्य-टीकालङ्कृतम्
१४९ पञ्चविधम् । अङ्गोपाङ्गनाम त्रिविधम् । निर्माणनामैकधा । संस्थाननाम पोढा । सङ्घातनाम
पञ्चविधम् । बन्धननाम पञ्चविध पञ्चदशविधं वा । संहनननाम पोढा । गत्यादिनामकर्म- स्पर्शरगन्धवर्णनामैकैकविधम् । आनुपूर्वीनाम चतुर्धा । अगुरुलघुनामैणामघान्तरभेद- कथा । उपघातपराघातातपोद्योतोच्छ्रासनामान्येकैकविधानि। विहायोसख्या
गतिनाम द्विधा । प्रत्येकशरीरसाधारणशरीरत्रसस्थावरसुभगदुर्भगसुस्वरदु:स्वरशुभाशुभसूक्ष्मबादरपर्याप्तापर्याप्तस्थिरास्थिरादेयानादेययशोऽयशस्तीर्थङ्करनामान्येकैकप्रकाराण्येव । एवमेता उत्तरप्रकृतयो नामकर्मणः सप्तषष्टिः । अत्र च बन्धनसवातनामनी शरीरनामान्तभूते एव, अतः शरीरविषयत्वादेव नोत्तरप्रकृतिः। पृथक्सूत्रे यदुपादानं पार्थक्येन तत् तयोः स्वरूपप्ररूपणार्थमिति ॥ ... भा०-गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननामसंहनननामस्पर्शनामरसनाम गन्धनामवर्णनामआनुपू
नाम अगुरुलघुनाम उपचातनाम पराघातनाम आतपनाम उद्योतनाम उच्छासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा-प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुभंगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम यादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थंकरनाम इत्येतद् छिचत्वारिंशबिधं मूलभेदतो नामकर्म भवति । उत्तरनामानेकविधम् ॥
टी-गतिनामेत्यादि भाष्यम् । तत्र गतिनामेत्येवमादिना भाष्येण इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवतीत्येवमन्तेन पिण्डप्रकृतिमात्रमाख्यायते । गतिनाम । नामशब्दः सर्वत्र जातिनामादिष्वपि समानाधिकरणः। आनुपूर्व्यनाम, अन्ये
... पठन्त्यानुपूर्वीनाम, ततश्च प्रथमपाठे सूत्रमेवम्-आनुपूष्योगुरुलधूपघात इति,
५ इतरत्र आनुपूर्व्यगुरुलघूपधात इति । प्रत्येकशरीरादीनां दशानां सेतराणामिति-सप्रतिपक्षाणां साधारणशरीरादीनां दशानां नामानि-अभिधानानि वक्ष्यमाणानि विज्ञेयानि । अथवा प्रत्येकशरीरादीनां पूर्वपदानां सामानाधिकरण्यविवक्षा. नामानीति व्यक्तिनिवक्षातो नामशब्द उत्तरपदं भवतीति । तद्यथेत्यादिनोद्देशः सामानाधिकरण्येन, प्रत्येकशरीरनामादिकं अन्ते तीर्थकरनाम प्रकृष्टत्वात् । इतिशब्दः पिण्डप्रकृतीयत्तापदर्शनार्थः। एतदिति नाम यथोक्तं द्विचत्वारिंशद्भेदं भवति सह बन्धनसवातनामभ्याम् । आसां पिण्डप्रकृतीनां सम्प्रति भेदप्रतिपत्तये बभाषे-उत्तरनामानेकविधमिति । उत्तरप्रकृतिनामेत्यर्थः । पिण्डप्रकृतिभेद इतियावत् । तद्यथेत्यादिना निर्दिशति
सङ्घात. पर शिविधं वा ' इति पाठो न विद्यते च-प्रतौ । २ - मेतेन' इति च-पाठः । ३ 'पृथंगपाठि'
इति ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org