SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः ८ भा०- तद्यथा - गतिनाम चतुर्विधम्- नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यगतिनाम, देवगतिनाम ॥ टी० - गतिनाम्नः पिण्डप्रकृतेश्वत्वारो भेदाः नरकगतिनामादयः । तत्र यस्य कर्मण उदयान्मारक इति व्यपदिश्यते तन्नरकगतिनाम । एवं तिर्यग्गतिनामादित्रितयमपि वक्तव्यम् ॥ भा० - जातिनाम्नो मूलभेदाः पञ्च । तद्यथा - एकेन्द्रियजातिनाम, द्वीन्द्रि यजातिनाम, श्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनांम ॥ टी० - जातिनाम्न इत्यादि । जातिनामेति पिण्डप्रकृतिरेकेन्द्रियादिना जातिपश्चकापेक्षया । एते च मूलभेदाः पञ्च । तद्यथेत्यादिना निर्दिशति, एकेन्द्रियजातिनामेत्यादि । एकं - प्रथममिन्द्रियं जातिः - सामान्यं तदेव नाम, एवं द्वीन्द्रिय जातिनामादिचतुष्टयमपि वाच्यम् । एकेन्द्रियजातिनाम कर्मोदयादेकेन्द्रिय इति व्यपदिश्यते । एकेन्द्रियसंज्ञाव्यपदेश निमित्तं एकेन्द्रियजातिनाम, जातिरिति सामान्येन पृथिव्यादिभेदेष्वन्वितत्वात्, एकेन्द्रियजातिना - मान्तरेणै केन्द्रियसंज्ञाया अभाव एव स्यात् ॥ १५० भा०- एकेन्द्रियजातिनामानेकविधम् । तद्यथा- पृथिवीकायिकजातिनाम, अकायिकजातिनाम, तेजः कायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति ॥ टी० - एकेन्द्रियजातिनामानेकविधमित्यादि । एकेन्द्रियजातयोऽपि पिण्डप्रकृतय एव पृथिवीकायिकादिभेदापेक्षया । तद्यथेत्यादिना निर्दिशति, पृथिवीकायिकजातिनाम पृथिव्येव कायः पृथिवीकायः स एषामस्ति ते पृथिवीकायिकाः तेषां जातिः तदेव नाम पृथिवीकायिकजातिनाम | पृथिवीकायिकजातिनामोदयात् पृथिवी कायिकव्यपदेशः । एवं शेषाणि ॥ भा०-तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा - शुद्धपृथिवीशर्करा - वालुको - पल- शिला- लवणा-य· स्त्रपु-ताम्र-सीसक-रूप्य - सुवर्ण-वज्र - हरिताल - हिङ्गुलक - मनःशिला-सस्यका-ञ्जन प्रवालका ऽभ्रपटाऽनवालिका जातिनामांदि गोमेदक-रुचकाङ्क-स्फटिक लोहिताक्ष-जलावभास- वैडूर्य-चन्द्रप्रभ- चन्द्रकान्त-सूर्यकान्त-जलकान्त-मसारंगल्या- श्मगर्भ-सौगन्धिक- पुलका ऽरिष्ट-काञ्जन-मणिजातिनामादि च ॥ डी० - तत्र पृथिवीकायिकेत्यादि । अनेन पुनरपि पृथिवीकायिक जातिनाम्नः पिण्डप्रकृतित्वं दर्शयति । तद्यथेत्यादिना शुद्धपृथिव्यादयो भेदाः प्राग् व्याख्याता नानापुद्गलपरिणामाः पृथिवीकायिकव्यपदेशभाज इति ॥ < १ नामेति' इति घ- पाठः । २ सामान्यं पृथि०' इति ग-च- पाठः । ३ ' टलान ' इति घ-पाठः । ४ 'नामानि ' इति ग-पाठः । ५ ' स्फुटिक' इति घ-पाठः । ६' गल्लाश्म ' इति घ-पाठः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy