________________
सूत्रं १२ ]
स्वोपज्ञभाष्य-- टीकालङ्कतम्
भा०
० - अच्कायिकजातिनामानेकविधम् । तद्यथा – उपक्लेदाऽऽवश्याय-नीहार- हिम-घनोदक- शुद्धोदकजातिनामादि ॥
टी० - अपकायिकजातिनामानेकविधमित्यादि । तद्यथेत्यादिना निर्दिशति । उपक्लेदो हेरतनुकः भूमेर्निर्गत्य तृणाग्रस्थितः । शेषा गतार्था भेदाः ॥
भा०- तेजः कायिकजातिनामानेकविधम् । तद्यथा - अङ्गार- ज्वाला- लातामुर्मुर - शुद्धानिजातिनामादि ॥
वायुकायिकजातिनामानेकविधम् । तद्यथा- उत्कलिका- मण्डलिका-झञ्झका-धन-संवर्तकजातिनामादि ॥
वनस्पतिकायिकजातिनामानेकविधम् । तद्यथा - कन्द-मूल-स्कन्ध-त्वक्काष्ठ- पत्र-प्रवाल- पुष्प-फल-गुल्म- गुच्छ लता- वल्ली-तृण-पर्व-काय-शेवाल - पनक-वलक- कुहनजातिनामादि |
एवं द्वीन्द्रियजातिनामैकविधम् । एवं त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजातिनामान्यपि ॥
टी० - तेजः कायिकेत्यादि गतार्थम् । द्वि- त्रिचतुः - पञ्चेन्द्रियजातिनामानि शङ्ख शुक्तिकाद्युपदेहिकापिपीलिकादिभ्रमरसरघादितिर्यग्मनुष्यादिभेदेन वाच्यानि ॥
शरीरनामोत्तरप्रकृतयः पञ्च । तत्प्रतिपादनायाह
भा०- - शरीरनाम पञ्चविधम् । तद्यथा - - औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनामेति ।
टी० - शरीरनामेत्यादि । असारस्थूलद्रव्यवर्गणानिर्मापित मौदारिकशरीरं, तत्प्रायोग्य पुद्गलग्रहणकारणं यत् कर्म तदौदारिकशरीरनामोच्यते । विचित्रशक्तिकद्रव्य निर्मापितं वैक्रियं तद्योग्यपुद्गलादानकारणं यत् कर्म तद् वैक्रियशरीरनामाभिधीयते । कारणे कार्योपचारात् प्रयोजनप्रसाधनायाहियत इत्याहारकशरीरम् । शेषं पूर्ववत् । तेजोगुणद्रव्यारधमुष्णगुणमाहारपरिपाचनक्षमं तैजसं शरीरम् । शेषं पूर्ववत् । कुण्डमिव बदरादीनामशेकर्माधारभूतं समस्त कर्मप्रसवनसमर्थमकुरादीनां बीजमिव कार्मणशरीरम् । इयं चोचरप्रकृतिः शरीरनामकर्मणः पृथगेव कर्माष्टकाणामुदयभूतादिति ॥
भा०---
- अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा-अ - औदारिकाङ्गोपाङ्गनाम, वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकविधम् । तद्यथाअङ्गनाम तावत् शिरोनाम, उरोनाम, पृष्ठनाम, बाहुनाम, अङ्गाष्टकम् उदरनाम, पादनाम । उपाङ्गनामानेकविधम् । तद्यथा - स्पर्शनाम, रसनाम, घाणनाम, चक्षुर्नाम, श्रोत्रनाम ॥
१' हरितनुः' इति ङ-पाठः । २ 'थन' इति घ-पाठः । ३ 'करण' इति च- पाठः । ४ 'कर्म' इति च पाठः ।
Jain Education International
१५१
For Personal & Private Use Only
www.jainelibrary.org