________________
तार्थाधिगमसूत्रम्
[ अध्यायः ८
टी० - अङ्गोपाङ्गेत्यादि । अङ्गान्युपाङ्गानि च यस्य कर्मण उदद्याभिर्वर्त्यन्ते तदङ्गोपाङ्गनाम त्रिविधम्-औदारिक वैकियका - ऽऽहारकभेदात् । तत्राङ्गान्यष्टौ - उरः शिरः पृष्ठमुदरं करौ पादौ च । उपाङ्गानि स्पर्शनमस्तिष्कादीनि । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकप्रकारम् । तत्र शिरोद्रव्यमधिकृत्योपाङ्गानि भाष्यकृत् पपाठ
१५२
भा० तथा मस्तिष्क कपाल काटिका शङ्ख ललाट- तालु-कपोल - हनुfags - दशनौ भ्रू नयन कर्ण नासाद्युपाङ्गनामानि शिरसः । एवं सर्वेषा - मङ्गानामुपाङ्गानां नामानि ॥
टी० --- तथा मस्तिष्केति । मस्तिष्कं मस्तुलुङ्गकं शिरोऽङ्गस्यारम्भकोऽवयवः । तथा कपालादयः दशनादयश्च ॥ ननु च धातुमध्येऽधीतं मस्तिष्कं नाङ्गं न प्रत्यङ्गमिति कपालादिवदारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवसेयम् । एवमुरः प्रभृत्यङ्गानामप्येकैकस्य वाक्यान्युपाङ्गनामानि ज्वलनजलानिलव सुधावनस्पतिवर्जजीवेषु सम्भवन्ति ॥
भा०--जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम ||
टी० - जातिलिङ्गाकृतीति । जाति रे केन्द्रियादिलक्षणा पञ्चधोक्ता तस्यां जातौ लिङ्गव्यवस्थामाकृतिव्यवस्थां च नियमयति यत्, लिङ्गं स्त्रियाः पुंसो नपुंसकस्य च यदसाधारणं, आकार आकृति:- अवयवरचना तां च यनिर्मापयति निर्माणनाम तदुच्यते । एतदुक्तं भवति - सर्वजीवानामात्मीयात्मीयशरीरावयव विन्यासनियमकारणं निर्माणनाम प्रासादादिनिर्माणकलाकौशलोपेतवर्धकवदिति ॥
मा० - सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धकं बन्धननाम । अन्यथा हि वालुका पुरुषवदनद्धानि शरीराणि स्युरिति ॥
टी० सत्यां प्राप्तावित्यादि । शरीरनामकर्मोदयाद् गृहीतेषु गृह्यमाणेषु वा तद्योग्यपुद्गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं यदि बन्धननाम काष्ठजतुवत् न स्यात् ततो वालुकापुरुषवद् विघटेरन् शरीराणि तदेतेन भाष्येण प्रतिपादितम् । औदारिकभेदाश्च पश्चधा, न च भेदः प्रकृत्यन्तरं शरीरनामकर्मणः । सङ्घातप्रकृतिस्वरूपनिरूपणा येदमाह -
भा०--- बद्धानामपि न सङ्घातविशेषजनकं प्रश्वयविशेषात् सङ्घातनाम दारुमृत्पिण्डायेःपिण्डसङ्घातवत् ॥
टी० --- बद्धानामपि चेत्यादि । बद्धानामपि च पुद्गलानां परस्परं जतुकाष्ठन्यायेन पुद्गलरचनाविशेषः सङ्घातः, संयोगेनात्मना गृहीतानां पुद्गलानां यस्य कर्मण उदयादौदा रिक
.
१ स्निग्धादीनि इति ङ पाठः । २ स्पर्शनादयत्र ' इति च पाठः। ३ 'लिङ्गं त्रिधा पुंसो नपुंसकस्य स्त्रियाच ' इति ङ -पाठः । ४ तदनन्तरं ' इति ङ - पाठः । ५ ' या सङ्घातवत् ' इति घे पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org