________________
सूत्रं १२ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
१५३
तनु विशेषरचना भवति तत् सङ्घातनामकर्म, पुद्गलरचनाकारेण विपच्यत इति पुद्गलविपात्र युच्यते । तच्चौदारिकादिभेदात् पञ्चधा, परस्परविभिन्न लेप्यकरचना विशेषवच्छरीरपरिणाम एव ह्युपलक्ष्यते । स चैवंविधः कर्मभेदो यदि न स्यात् ततः प्रत्यक्षप्रमाणविनिश्श्रेयः पुरुषयोषिद्रवादिलक्षणो नानाशरीरभेदो नैव सम्भाव्येत, सङ्घातककर्म विशेषाभावात् । कारणानुविधायिच कार्य लोके प्रतीतम् । सङ्घातविशेषादेव हि पुरुषादिशरीरलक्षणो विभागेन व्यपदेशः । अपिशब्दः सम्भावनार्थः । चशब्दोऽवधारणार्थः । सत्येव बन्धननाम्नि न स्याद् विशेषः । यतः सङ्घातविशेषजेनकं प्रचयविशेषात् सङ्घातनाम । सङ्घातविशेषस्य जनकमिति शेषलक्षणा षष्ठीति नास्ति समासप्रतिषेधः । स तु प्रतिपदविहितायाः षष्ठ्याः प्रतिषेधः । प्रचयविशेषादिति । प्रचयविशेषाद्धेतोः पुद्गलानां विन्यासः पुरुषस्त्रीविशेषात्मकः । चशब्दोs - वधारणार्थः । यन्निमित्तश्च स विन्यासस्तत् सङ्घातनाम । तत्प्रसिद्धोदाहरणेन भावयन्नाह - दारुमृत्पिण्डायः पिण्ड सङ्घातवदिति । गद्यबन्धनानुलोम्याच्चात्र द्विः पिण्डग्रहणम् । दारुमृदयः पिण्डवदिति दुरुच्चारं स्यात्, अयोदारुमृत्पिण्डवदिति किं न कृतम् ? अंपूतिवचनाः खल्वाचार्याः सकृदभिर्धाय न निवर्तन्ते, दारुपिण्डवत् मृत्पिण्डवत् अयः पिण्डवच्चेति दृष्टान्तत्रयं सुलभत्वात् प्रतिपत्तुश्चातिशायिप्रबोधहेतुत्वात्, दाववयवसङ्घातो दारुपिण्डः । एवं मृदवयवसङ्घातो मृत्पिण्डः । तथाsयोऽवयवानां सङ्घातोऽयः पिण्डः । तैं एवात्रौ - दारिकादिशरीरयोग्य पुद्गलांश्चेतनेनात्मनाऽऽत्मसात्कृत्य सङ्घातनाम कर्मोदयात् परस्परं संहताः सन्तिष्ठन्त इति ॥
संस्थाननाम स्वरूपाख्यानायाह
भा० - संस्थाननाम षड्विधम् । तद्यथा - समचतुरस्रनाम, न्यग्रोधपरिमण्डनाम, सादिनाम, कुब्जनाम, वामननाम, हुण्डनामेति ॥
-----
टी० - संस्थाननाम षड्विधमित्यादि । संस्थितिः संस्थानम् - आकारविशेषः । तेष्वेव बध्यमानेषु पुद्गलेषु संस्थानविशेषो यस्य कर्मण उदद्याद् भवति तत् संस्थाननाम, षड्विधं षट्प्रकारम् । तद्यथेत्यनेन षडपि नामग्राहमाचष्टे - समचतुरस्रनामेत्यादि । स च तच्चतुरस्रं चेति समचतुरस्रम् । यतस्तत्र मानोन्मानप्रमाणमन्यूनमनधिकम्, अङ्गोपाङ्गानि चाविकलानि ऊर्ध्वं तिर्यक् च तुल्यत्वात् समं चतुरस्रं चाविकलावयवत्वात् स्वाङ्गलाष्टशतोच्छ्रायाङ्गोपाङ्गयुक्तं, युक्तिनिर्मितलेप्यकवद् वा । न्यग्रोधपरिमण्डलनाम्नस्तु नाभेरुपरि सर्वावयवाः
१ ' जनकावयवा विशेषात् ' इति ङ-पाठः । २ 'स्त्रीशरीरादिकः' इति च - पाठः । ३ 'अपूर्तिवचनाः' इति गङ-पाठः । ४ 'धायनिव' इति ङ-पाठः । ५ यथा मृत्पिण्डस्तथा ' इति ग-पाठः । ६ स एवमौदारिकादि इति च-पाठः । ' बतेनात्म' इति ङ-पाठः । ८' साचिनाम' इति घ-पाठः । ९' ऊर्ध्वतिर्यक्ष्वतुल्य इति ङ-पाठः ।
७
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org