________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ८ समचतुरस्रसंस्थानलक्षणाविसंवादिनोऽधस्तात् पुनरुपरितनभागानुरूपास्तस्य नावयवा इति अत एव न्यग्रोधपरिमण्डलं तदुच्यते । न्यग्रोधाकृतित्वात् न्यग्रोधपरिमण्डलमुपरिविशालशाखत्वादिति । सादिनामस्वरूपं तु नाभेरधः सर्वावयवाः समचतुरस्रलक्षणाविसंवादिनः उपरि तु नदनुरूपाः । सादीति शाल्मलीतरुमाचक्षते प्रवचनवेदिनः। तस्य हि स्कन्धो द्राधीयानुपरितना न तदनुरूपा विशालतेति । कुब्जनामस्वरूपं पुनः कन्धराया उपरि हस्तपादं च समचतुरस्त्रलक्षणयुक्तं संक्षिप्तविकृतमध्यकोष्ठं च कुब्जम् । वामननाम तु लक्षणयुक्तं ओष्ठग्रीवादि उपरि हस्तपादयोश्च न्यूनलक्षणं वामनम् । हुण्डसंस्थानं तु यत्र पादाद्यवयवा यथोक्तप्रमाणविसंवादिनः प्रायस्तद्धण्डसंस्थानमिति । तथा चोक्तम् (बृहत्सग्रहण्याम् गा० १७६)
"तुल्लं वित्थरबहुलं उस्सेहबहुलं च मडहकोई च ।
हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥१॥" भा०-संहनननाम षविधम् । तद्यथा-वज्रर्षभनाराचनाम, अर्धवर्षभनाराचनाम, नाराचनाम, अर्धनाराचनाम, कीलिकानाम, सृपाटिकानामेति ॥
टी-संहनननाम षड्विधमित्यादि । अत्र पूर्ववद् व्याख्या । तद्यथेत्यादिना पण्णामपि स्वरूपमाविर्भावयति-वज्रर्षभनाराचेत्यादि, अस्थ्नांबन्धविशेषः संहननं,ऋषभः
पट्टः, वज्र-कीलिका, मर्कटबन्धः य उभयपार्श्वयोरस्थिबन्धः स किल अर्धवज्रर्षभनाराचव्याख्यायां मतभेदः ।
राचः नाराचः । वर्षभनाराचा यत्र संहनने तद् वर्षभनाराचसंहननम् , अस्थना
- बन्धविशेष इति । अर्धवज्रर्षभनाराचनाम तु वज्रर्षभनाराचानामधं किल सर्वेषां वज्रस्यार्धं ऋषभस्याधं नाराचस्यार्धमिति भाष्यकारमतम् । कर्मप्रकृतिग्रन्थेषु वज्रनाराचनामैवं पट्टहीनं पठित, किमत्र तत्त्वमिति सम्पूर्णानुयोगधारिणः कचित् संविद्रते। अधेग्रहणाद् वा ऋपभहीनं व्याख्येयम् । नाराचनाम्नि तु मकेटबन्ध एव केवलो न कीलिका न पट्टः । अर्धनाराचनाम्नि त्वेकपाधै मर्कटबन्धः, द्वितीयपार्श्वे तु कीलिकैव मर्कटबन्धाः, अत्रापि कर्मप्रकृती नैवास्ति। कीलिकानाम विना मर्कटबन्धेनास्थो मध्ये कीलिकामात्रम् । सपाटिकानाम कोटिद्वयसंगते ये अस्थिनी चर्मस्नायुमांसावबद्ध तत् सृपाटिकानाम कीर्त्यते। सृपाटिका-फलसंपुटकं यथा तत्र फलकानि परस्परस्पर्शमात्रवृत्त्या वर्तन्ते एवमस्थीन्यत्र संहनने। तदेवमेतान्येवंविधास्थिसङ्घातलक्षणानि संहनननामान्यौदारिकशरीर एव संहन्यन्ते, लोहपहनाराचकीलिकाप्रतिबद्धकपाटवदिति ।।
१'नोऽवयवा' इति उ-पाठः। २ छाया
तुल्य १ विस्तारबहुले २ उत्सेधबहलं ३ चमडभकोष्ठं च ।।
४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं ६ हुण्डम् ॥ ३ 'संचियं' इति ग-पाठः । ४ 'रिणः संविद्रते' इति ग-च पाठः । ५ ' कीलपट्टः' इति अ-पाठः । ६ 'कीलिमात्र' इति ग-च-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org