________________
साधारण
सूत्र १२ ] स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०-स्पर्शनामाष्टविध कठिननामादि॥रसनामाने कविधं तिक्तनामादि। गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानं कविध कालनामादि ।
टी-स्पर्शनामाष्टविधमित्यादि । औदारिकादिषु शरीरेषु यम्य कर्मण उदयात् कठिनादिः स्पर्श विशेषः समुपजायते तत् स्पर्शनामाष्टविधम् । तामष्टभेदतां प्रतिपादयभाह--कठिननामादीति । कर्कश-मृदु-गुरु लघु स्निग्ध रूक्ष-शीतोष्णनामानि । स्वस्थाने बनेकभेदत्वमेषां प्रकर्षापकर्षजनितम् रसनामानेकविधं तिक्तनामादि । रसनामानेकभेदं तिक्त कटु-कषाया-ऽम्ल-मधुर-लवणाख्यम् । लवणो मधुरान्तर्गत इत्येके । अनेकविधग्रहणं तिक्ताद्यन्तर्भेदप्रतिपादनार्थम् । एवमन्यत्राप्यन्तर्भदा वाच्याः । गन्धनामानेकविधमित्यादि । सुरभिगन्धनामादि शरीरविषयं सौरभं दुर्गन्धित्वं च यस्य कर्मणो विपाकान्निवर्तते तद् गन्धनाम । अपरे साधारणं गन्धमाहुस्तदसत् । सुरभिणा दुर्गन्धिना वा भवितव्यं, न साधा
रणः कश्चिदस्तीति । वर्णनामानेकविध कालनामादि । यस्योदया
च्छरीरेषु कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद् वर्णनाम कृष्ण-नील लोगन्धनिरासः
. हित-पीत-शुक्लभेदम् । सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिषु पुद्गलेषु विपच्यन्त इति ॥
आनुपूर्वीनामस्वरूपनिरूपणायाह--
भा०—गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूा तत्प्रापणसमर्थमानुपूर्वीनामेति ॥
टी-गतावुत्पत्तुकामस्येत्यादि । गम्यतेऽसाविति गतिारकाद्युत्पत्तिस्थानम् । तच गतिनामकर्मोदयादवाप्यते । तस्यां गतावुत्पत्तुमिच्छतः कर्ममामर्थ्यादात्मनः । अन्तर्गती वर्तमानस्येति । मनुष्यः 'तिर्यग्योनिवाच्यं यावदुत्पत्तिस्थानं न प्राप्नोति तावदन्तर्गतिः तत्र वर्तमानस्य कस्यचिजन्मवतश्चानुपूर्वीनामकर्मोदयो भवति । आनुपूर्वी च क्षेत्रसन्निवेशक्रमः । "अनुश्रेणि गतिर्जीवानां पुद्गलानां च" (अ०२ सू० २७) इति वचनात् । तत्र यत्कर्मोदयादतिगयेन तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यं भवति । तचात्मनो गत्यन्तरं गच्छत उपग्रहे वर्तते ऋषभस्येव पयः । सा चान्तर्गतिर्द्वि विधा---ज्वी वक्रा च। तत्र यदा ऋज्व्या गच्छति समयप्रमाणया तदा पूर्वकर्मैवायुरेनुभवन्नानुपूर्वीनामकर्मणैवोत्पत्तिस्थान प्राप्तः पुरस्कृतमायुरासादयति । वक्रगत्या पुनः प्रवृत्तः कूर्परलाङ्गलगोमूत्रिकालक्षणया द्वित्रिचतुःसमयमानया वक्रारम्भकाले पुरस्कृतमायुरादते । तदैव चानुपूर्वीनामाप्युदेति । ननु च यथैव गतावृजव्यां विना आनुपूर्वीनामकर्मणोत्पत्तिस्थानमियति तद्वद् वक्र गत्यामपि कस्मान्नेति ? उच्यते-ऋज्व्या पूर्वकायुव्योपारेणैव गच्छति, यत्र तत्पूर्वकमायुः क्षीणं तत्र तस्योदय इत्य
१ 'जातिर्वा यस्तुर्यावदु' इति च -पाठः। २ 'दत्यतिश्येन' इति ग-च-पाठः। ३. ऋजा वक्रा ' इति पाठः । ४ ' रन्तंभवमानु ' इति ङ-पाठः । ५ ' क्रमेणैवो ' इति इ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org