________________
१३४
[ अभ्यायः ८
तद् यथा - इन्द्रियानिन्द्रियनिमित्तत्वादवग्रहादयो मतिज्ञानस्य, अङ्गानङ्गविकल्पाः श्रुतज्ञानस्य, भवक्षयोपशमजप्रतिपात्या दिविकल्पाश्चावधिज्ञानस्य, ऋजुविपुलमतिविकल्पौ मनःपर्यापज्ञानस्य, सयोगायोगास्थादिविकल्पाः केवलज्ञानस्येति । तत्रेन्द्रियनिमित्तं श्रोत्रादिपञ्चकसमुद्भवं क्षयोपशमजं ज्ञानं योग्यदेशावस्थितस्व विषयग्राहि । अनिन्द्रियं तु मनोवृत्तिः ओषज्ञानं च, तदेतन्मतिज्ञानं चतुरष्टाविंशतिद्वात्रिंशत् षट् त्रिंशदुत्तरत्रिशतभेदमाव्रियते येन तन्मतिज्ञानावरण देशघातिलोचनपटलवच्चन्द्रप्रकाशाऽयादिवद् वा । तथा श्रोत्रेन्द्रियोपलब्धिः श्रुतं शेषेन्द्रियमनोविज्ञानं च श्रुतग्रन्थानुसारि स्वार्थाभिधानप्रत्यलं श्रुतज्ञानं, तदनेकमेदमाचक्षते प्रवचनाभिज्ञाः । यथाऽऽह (बृहत्कल्पे १ ) -
"" जावंति अक्खराई, अक्खर संजोग जेत्तिया लोए । एवइया पगडीओ, सुयनाणे होंति नायव्वा १. ॥” तस्यावृतिः श्रुतज्ञानावरणम् । एतदपि देशघातीति । अन्तर्गतबहुतर पुद्गलद्रव्यावधानादवधिः पुद्गलद्रव्यमर्यादयैव वाऽऽत्मनः क्षयोपरामजः प्रकाशाविर्भावोऽवधिः- इन्द्रियनिरपेक्षः साक्षात् ज्ञेयग्राही लोकाकाश प्रदेशमा नप्रकृतिभेदः, तदावरणमवधिज्ञानावरणम् । इदमपि देशषास्येव । तथाऽऽत्मनो मनोद्रव्यपर्यायान् निमित्तीकृत्य यः प्रतिभासो मनुष्यक्षेत्राभ्यन्तरवृचिपल्योपमासङ्ख्येय भागावच्छिन्नपश्चात्पुरः कृतपुद्गलसामान्य विशेषग्राही मनःपर्यायज्ञानसंज्ञस्वस्यावरण देशघाति मनःपर्यायज्ञानावरणम् । समस्तावरणक्षयाविर्भूतमात्मप्रकाशतश्वमशेषद्रव्यपर्यायग्राहि केवलज्ञानं तदाच्छादनकृत् केवलज्ञानावरणम् । एतच्च सर्वघातीति ॥ ७ ॥ सम्प्रति दर्शनावरणोत्तर प्रकृतिप्रतिपिपादयिषया सूत्रमाहदर्शनावरणस्य नवो- सूत्रम् — चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानि च ॥ ८-८ ॥
तरप्रकृतयः
तत्वार्थाधिगमसूत्रम्
टी० - चक्षुरादयः कृतद्वन्द्वाः षष्ठया निर्दिष्टाः प्रस्तुतावरणसम्बन्धाद् वेदमीयसम्बन्धनिराकरणप्रतिपत्तेथ, दर्शनावरणमूलप्रकृतिसामर्थ्यात् चक्षुरादयो दर्शनशब्देन सहागिसम्बध्यात्, निद्रादयः पञ्च स्त्यानद्धर्यन्ताः कृतद्वन्द्वाः वेदनीयशब्दोत्तर निर्दिष्टाः समानाधिकरणंप्रतिपत्यर्थम् । पश्यत्यनेनात्मेति चक्षुः । सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणद्वारं, द्वारकं च सामान्यमात्रोपलम्भनमात्म परिणतिरूपं चक्षुर्दर्शनं तल्लब्धिघाति चक्षुर्दर्शनावरणं, शेषेन्द्रियमनो विषयमविशिष्टम चक्षुर्दर्शनं तल्लब्धिधात्यचक्षुर्दर्शनावरणम् । अवधावपि प्रथमसम्पाते सामान्यमात्रोपलम्भनमवधिदर्शनम् । केवलदर्शनमपि सामान्योपयोगलक्षणम् । एतदुत्तरावरणमवधिदर्शनावरणं केवलदर्शनावरणं च । स्वापो निद्रा सुखप्रांतबोधलक्षणा । वेद
१. छाया-----
1
यावन्ति अक्षराणि अक्षरसंयोगा यावन्तो लोके ।
एतावत्यः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः ॥
२' तदात्मनो' इति ङ-पाठः । ३ 'छित्रपचागा ( ? ) न्पुरः कृत' इति च पाठः । ४०स्थानगृद्धिनंद' इति घन्पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org