________________
सूत्र ७]
स्वोपशभाष्य-टीकालङ्कृतम् तयथेत्यनेन सूत्रं सम्बध्नाति । पश्चादिभेदा झानावरणादयोऽभिहिताः, तद् यथा ते व्यवस्थिताः येन क्रमेण स्वरूपेण पञ्चादिभेदास्तथा अष्टापि मूलप्रकृतिषुत्तरप्रकृतयः प्रतिपदं प्रदर्श्यन्त इत्याह।
सूत्रम्-मैत्यादीनाम् ॥ ८-७॥ टी.-मत्यादीनामित्यादि । मतिरादिर्येषां श्रुतावधिमनःपर्यायकेवलज्ञानानामिति तगुणसंविज्ञानो बहुव्रीहिः तानि मत्यादीनि तेषां मत्यादीनामावरणम् । क्रिययाऽऽस्तुमिष्टतमत्वात् कर्मणि षष्ठी । मत्यादीनामावरणं मत्यादीन्याब्रियन्तेऽनेनेति । अपरे तु प्रतिपर्द पश्चापि पठन्ति-मतिश्रतावधिमनःपयोयकेवलानामिति । एवं चापार्थकः पाठो लक्ष्यते । यतोऽ
नन्तरसूत्रे पञ्चादिभेदा ज्ञानावरणादय इत्यवतमेव । निझोताश्च स्वरूसूत्रपाठविचारः पतः प्रथमाध्याये व्याख्यातत्वात् । अत आदिशब्द एव च युक्तः।
भाष्यकारोऽप्येवमेव सूत्रार्थमावेदयतेभा०-मस्यादीनां ज्ञानानामावरणं पञ्चविषम्-मतिज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरण, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणम् । मत्यादीनां जानानामावरणानि पश्च भवन्ति ॥७॥
टी.-ज्ञानावरणं पञ्चविधं भवति । मत्यादीनां ज्ञानानार्मावरणानि पञ्च विकल्पाश्चैकश इत्येतावदेव भाष्यमस्य सूत्रस्य । तत्र ज्ञानावरणं पञ्चविधं भवतीत्यनेनानन्तरसूत्रोक्तसंख्यावधारणं मन्तव्यम् । सूत्रार्थमाचष्टे-मत्यादीनां ज्ञानानामावरपानि पञ्चेति, मत्यादय एव ज्ञानानीति समानाधिकरणमाविष्करोति । तेषां मत्यादीनां ज्ञानानां पश्चाना पश्चैवावरणानि भवन्ति । बाहुल्यमङ्गीकृत्य समानाधिकरणप्रतिपत्तिः । मनःपर्यायज्ञाने तु सप्तम्यन्तेन समासः पूर्वपदेन, मनःपर्यायेषु ज्ञानं मनःपयोयज्ञानम् । अथवा करणरूपाः पर्यायाः कार्यत्वेनोपचरिता इति समानाधिकरण एव । तानि तु प्रथितान्येव । तद् यथा-मतिज्ञानावरण श्रुतज्ञानावरणं अवधिज्ञानावरणं मनःपर्यायज्ञानावरण केवलज्ञानावरणमिति । तत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा भतिज्ञानादिव्यपदेश्याः पर्याया बहुविकल्पाः। तत्र च ज्ञानावरणस्य स्वस्थाने यावन्तो विकल्पाः सम्भवन्ति सर्वे ते ज्ञानावरणग्रहणेनैव ग्राह्या इति भाष्यार्थः । विकल्पा-भेदाः । आदिशब्दोपादानात् मत्यज्ञानादित्रितयं समुच्चीयते, बोधसामान्यात् मतिश्रुतावध्यविशेषाच्च ।
१'मतिश्रुतावधिमनःपर्यायकेवलानाम् ' इति घ-टो-पाठः। २ 'कारोऽयमेव' इति इ-पाठः । ३ घ-पुस्तके। भाष्य त यथा-'ज्ञानावरणं पश्चविधं भवति । मत्यादीनां ज्ञानानामावरणानि पश्च । विकल्पांपैकश इति ॥'इर्द टीकाकाराणां संमतम् ।
४ 'मावणोति ' इति -पाठः । ५ 'धारणम् । मत्यादीना' इति स-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org