________________
तार्थाधिगमसूत्रम्
[ अध्यायः ८
भा०- आय इति सूत्रक्रमप्रामाण्यात् प्रकृतिबन्धमाह । सोऽष्टषिषः, तथा - ज्ञानावरणं, दर्शनावरणं, वेदनीयं मोहनीयं, आयुष्कं नाम, गोत्रम्, अन्तरायमिति ॥ ५ ॥ किश्वान्यत्
१३२
टी०- - आय इति सूत्रक्रमप्रामाण्यादित्यादि भाष्यम् । आद्यः - प्रथमो मूलप्रकृतिबन्धः । इति ध्णः शब्दपदार्थ: । सूचनात् सूत्रं अनेकभेदं कर्म यतः सूचयति । क्रमः - सन्निवेशस्तस्य प्रामा'यमन्यप्रमागत्यादिवत् समासः तस्मात् सूत्रक्रपप्रामाण्यादिति हेत्वर्था पञ्चमी । प्रकृतिबन्धमिति सामान्याभिधानेऽपि मूलप्रकृतिवन्धमेत्र काका प्रतिपादयति सूत्रकारः । यतः पञ्चनवेत्यादिनोत्तरप्रकृतिबन्धं वक्ष्यति ( अ० ८, सू० ६ ) । स मूलप्रकृ तिबन्धोऽष्टविधः - अष्टप्रकारः । तद्यथा - ज्ञानावरणमित्यादि गतार्थ भाष्यम् । इतिकरणः शुभाशुभस्य कर्मण इयत्ताप्रतिपत्तये प्रायोजीति ॥ ५ ॥
किञ्चान्यदित्यादिना सूत्रस्य सम्बन्धमाचष्टे । न केवलं प्रकृतिन्धो मूल विशेषणः, उत्तरोपपद विशेषणचेत्येतदनन्तरं प्रतिपादयन्नाह -
मूलप्रकृतीनामया- सूत्रम् — पञ्चनवद्यष्टाविंशतिचतुर्द्विचत्वारिंशद्धिपञ्चभेदा यथाक्रमम् ॥ ८-६ ॥
तरभेदसख्या
टी० - पञ्चादीनां कृतद्वन्द्वानां भवनविभक्तया निर्देशः । एते भेदाः पञ्चादिभेदा यथाक्रममित्यनन्तरसूत्रक्रमं प्रत्यवमृशति, अनन्तरसूत्र क्रमप्रामाण्यात् ज्ञानावरणाद्य मिसम्बन्धः । तांश्च पश्चादिकान् भेदान् स्वभावतः प्रति मूलप्रकृर्ति वक्ष्यति । ता एव मूलप्रकृतीरभिसम्बन्धयन्नाह -
भा० - स एष प्रकृतिबन्धोऽष्टविधोऽपि पुनरेकशः पञ्चभेदः नवभेदः विभेदः अष्टाविंशति भेदः चतुर्भेदः द्विचत्वारिंशद्भेदः विभेदः पञ्चभेद इति यथाक्रमं प्रत्येतव्यम् । इत उत्तरं यद् वक्ष्यामः ॥ ६ ॥ तथथा
टी०० - स एष प्रकृतिबन्धोऽष्टविधोऽपीत्यादि । आत्मपुद्गलद्रव्यस्यान्वयित्वात् स इत्यनेन सामान्यमात्रपरामर्शः । एष इत्यन्वयिनः परिणाम विशेषप्रतिपत्तिः । प्रकृतिबन्ध इति मूलप्रकृतिबन्धोऽष्टप्रकारोऽपि भूय एकैको ज्ञानावरणादिपश्चादिभेदो मन्तव्य इति क्रमेण भाष्यकृद् दर्शयति – पञ्चभेद इत्यादिना भाष्येण । समुदायार्थस्त्वस्य भाष्यस्य प्रागास्रवोद्देशे मूलप्रकृति प्रदर्शित एव, केवलं इह तूत्तरभेदानां सङ्ख्याप्रदर्शन मिति । तत्र पञ्चभेदो ज्ञानावरणप्रकृतिबन्धः क्रमेण यावत् पञ्च भेदोऽन्तरायप्रकृतिबन्ध इत्येवमेतद् यथाक्रमं प्रत्येतव्यम् । इतः प्रभृत्युत्तरकाउं यदभिधास्याम इति ॥ ६ ॥
१' बन्धे' इति ग-पाठः । २ ' तदनेन ' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
३ ' प्रदर्शनमेव ' इति पाठः ।
www.jainelibrary.org