________________
स्वोपज्ञभाष्य–टीकालङ्कृतम्
" तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वैर्देशैर्योग विशेषाद् ग्रहणं प्रदेशाख्यम् ॥ १ ॥ प्रत्येकमात्मदेशाः कर्मावयवैरनन्तकैर्बद्धाः । कर्माणि तो मुञ्चत सातत्ययोगेन || २ || " इतिकरण मौलबन्धभेदेवत्ताप्रतिपादनार्थः । ज्ञानावरणादिकर्मणामष्टानामपि प्रकमादिमेद एव मौल इति ॥ ४ ॥
सूत्र ५]
उत्तरसूत्रसम्बन्धार्थस्तत्रशब्दः । तत्र तेषु चतुर्षु प्रकृत्यादि लक्षणेषु बन्धभेदेषु प्रथमो मेद उच्यते । स च बन्धो द्वेधा - मूलप्रकृतिबन्धः उत्तरप्रकृतिबन्धथ । मूलप्रकृतिबन्धप्रतिपश्चर्यमिदं बेचनम् -
सूखप्रकृतयोऽष्टी सूत्रम् — आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाः ॥ ८-५ ॥
१३१
टी० - आदौ भव आयोऽनन्तराठीतसूत्र विन्याससंश्रयणात् ' (१) ज्ञानदर्शनयोः आवरणशब्दः प्रत्येकमभिसम्बध्यते ज्ञानावरणं दर्शनावरणमिति । ज्ञानमेव बोधलक्षणो विशेविषयः पर्याय आत्मनः, तथा दर्शनपर्यायः सामान्योपलम्भलक्षणस्तयोरावरणं- आच्छादनमावृतिः आवरणं आत्रियते वाऽनेनेति भावकरणयोर्व्युत्पत्तिः, सुखदुःखज्ञानावरणादीनां रूपेणानुभवितव्यत्वाद् वेदनीयमिति कर्मसाधनम् । मोहयति मोहन वा व्युत्पस्यर्थः मुत्यनेनेति वा मोहनीयम् । एत्यनेन गत्यन्तराणीत्यायुः, आयुरेव Varsi स्वार्थे कन् । नामयतीति नाम प्रह्वयत्यात्मानं गत्याद्यभिमुखमिति, नम्यते वा प्रीक्रियतेऽनेनेति नाम । कर्तरि करणे वा व्युत्पाद्यते । गोत्रं उच्चनीच भेदलक्षणं तद् गच्छति - प्राप्नोत्यात्मेति गोत्रम् । अन्तर्धीयतेऽनेनात्मनो वीर्यलाभादीति अन्तरायः । अन्त र्धानं वाऽऽत्मनो वीर्यादिपरिणामस्येत्यन्तरायः । " कृत्यल्युटो बहुलं " ( पा० अ० ३, पा० ३, सू० ११३ ) इति लक्षणसद्भावात् सर्वत्र साधिमा प्रतिपत्तव्यः । तुल्यार्थत्वात् सन्कीर्यन्ते संज्ञा इति चेन प्रसिद्धतरत्वात् गोसर्पादिसंज्ञावत् । एवमेते ज्ञानावरणादयः कृतद्वन्द्वाः प्रथमया निर्दिष्टाः । क्रमस्त्वेषामर्थापेक्षः । तथाच ज्ञानदर्शनावरकानावरणादीनां णोदयजनिता सर्वसत्वानां भवयथा । तां च वेदयमानोऽपि मोहामिभूक्रमे हेतुः तत्वान विरज्यते । अविरक्तश्व देवमानुषतिर्यङ्नरकापुषि वर्तते । न वानामकं जन्म | जन्मवन्तश्चानुस्यूताः सदैव गोत्रेण । तत्र संसारिणां सुखलेशानुभवः सान्तरागः सर्व इत्यन्तरायनिर्देशः ॥
१' बदति' इति जन्पाठः । २ अत्र काचित् त्रुटिरिति प्रश्नः । ३ ' व्यवस्था' इति ङ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org