________________
१३० तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ८ प्रकृतिशब्दः । दुष्टप्रकृतिर्दुष्टस्वभाव इति प्रसिद्धेः । ज्ञानावरणं ज्ञानाच्छादनस्वभावं दवः, एवं दर्शनावरणादावपि योज्यम् । स्वभाववचनत्वे च भावसाचनः प्रकृतिशब्दः । स्थित्यनुभावशब्दावपि भावसाधनो । इयत्तयाऽवधारणात् प्रदेशशब्द: कर्मसाधना । क्रमनियमस्तु शेषविकल्पप्रकृतेरादौ प्रकृतिबन्धः । उपात्तस्यावस्थानकालपरिच्छेदात् ततः स्थितिबन्धः । सत्यां स्थितौ फलदानक्षमत्वादनुभावबन्धः। ततः कर्मपुद्गलपरिमाणलक्षणः प्रदेशबन्धः । स बन्ध इत्यत्र बन्धस्य प्रस्तुतत्वात्तच्छब्देन परामर्शः। विधिविधान-मेद: तस्य विधमस्तद्विधयो-बन्धभेदा इति, एतद् भाष्यकताऽऽविष्कृतमेव प्रत्येकं सम्बनता पन्धशब्दम् ॥ ___ भा०-प्रकृतिबन्धः, स्थितिबन्धः, अनुभावबन्धः, प्रदेशबन्ध इति ॥४॥
टी-तत्र यथोक्तप्रत्ययसद्भावे सति पुद्गलादानं प्रकृतिवन्धः कर्मात्मनोरक्यलक्षणः, सतयात्मनोऽध्यवसायविशेषादनाभोगपूर्वकादाहारपरिणामवत् कर्मपरिणतिः स्थित्यादि. लक्षणा। तथाचोक्तमेव कर्मपुद्गलराशेः को परिगृहीतस्यात्मप्रदेशेष्ववस्थान यतिः । अध्यवसायनिर्वर्तितः कालविभागः, कालान्तरावस्थाने सति विपाकवत्ताऽनुभावबन्धः। समासादिवपरिपाकावस्थस्य बदरादेरिवोगभोग्यत्वात् सर्वदेशोत्येकद्वित्रिचतु:स्थानशुभाशुभतीव्रमन्दादिभेदेन वक्ष्यमाणः । ततस्तस्य कर्तुः स्वप्रदेशेषु कर्मपुद्गलद्रव्यपरिमाणनिरूपणं, प्रदेशबन्धः, अत्र च पारमर्षवचनविदः कणिकागुडघृतकंदुकमाण्डादिद्रव्यविकार मोदकमाहरन्ति प्रकृत्यादिबन्धनिरूपणाय । तथाहि-चित्रः पुद्गलपरिणामः कत्रध्यवसायानुगृहीत इति भाव्यते । मोदको हि वातपित्तहरो बुद्धिवर्धनः संमोहकारी मारक इत्यनेकेनाकारेण परिणमते, जीवसंयोगात् , तथा कर्मवर्गणायोग्यपुद्गलराशिरप्यात्मसम्बन्धात् कवित ज्ञानमाषणोति, अपरो हि दर्शनं स्थगयति, अन्यः सुखदुःखानुभवहेतुरित्यादि योज्यम् । भूयस्तस्यैवाविपक्षगन्धरसादेरविनाशित्वेनावस्थान स्थितिः । आह च
"इति कर्मणः प्रकृतयो मृलाश्च तथोत्तराश्च निर्दिष्टाः।
तासां यः स्थितिकालनिबन्धः स्थितिबन्ध उक्तः सः॥१॥" तस्यैव च स्निग्धमधुराधेकद्विगुणादिभावोऽनुभावः । यथाऽऽह--
" तासामेव विपाकनिबन्धो यो नामनिर्वचनभिन्नः।
स रसोऽनुभावसंज्ञस्तीम्रो मन्दोऽथ मध्यो वा ॥१॥" पुनस्तस्यैव कणिकादिद्रव्यपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिमाणनिरूपणं प्रदेशबन्ध इति । यथोक्तम्
'कलापपरि-' इति ग-पाठः। २ 'पात्याधात्म' इति ग-पाठः। ३ 'कटुभाड' इति -पा। 'मोहकरो' इति ग-पाठः।
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org