SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् १२९ घटकादिभाविनो मृद्वयना आमेडिता यथा पिण्डे । सद्वज्ज्ञानावरणादिकर्मदेशा अपि ज्ञयाः ॥३॥ आमेडितमविभक्तं यद्यप्यष्टविधमिष्यते कर्म। एवमपि जिनदृष्टं नानात्वं प्रकृतितस्तस्य ॥४॥ पुद्गलतासाम्येऽपि द्रव्याणां नेनु विपाकतो भेदः। दृष्टः पित्तकफानिलपरिणामवतां स्वगुणभेदात् ॥ ५॥ यस्य गुणो यादृक् स्यात् ननु तादृशमेव भवति तस्य फलम् । नहि जाम्बवानि निम्बः फलति न जम्बुश्च निम्बानि ॥६॥ कर्मतरवोऽपि तद्वन्नानास्वस्वप्रयोगपरिषिक्ताः । नानास्वस्वगुणसमान् फलन्ति तांस्तान् गुणविशेषान् ॥७॥" एनमेव चार्थ भाष्यकारोऽपि स्पष्टयति भाष्येणभा०–स एष कर्मशरीरपुद्गलग्रहणकृतो पन्धो भवति ॥ ३ ॥ टी०-स एष इत्यादिना। स ऐष लोलीभूत आत्मप्रदेशकर्मपुद्गलपिण्डः स इत्यनेन परामृश्यते । एष इति नान्यः । तस्यैवानुसन्धानमाचष्टे । आत्मप्रदेशानां पुद्गलानां चान्योन्यानुगतिलक्षण एव पन्धो भवति । कर्मशरीरमिति कार्मणशरीरमात्मैक्याद योगकषायपरिणतिपुक्तमपि च कर्मयोग्यपुद्गलग्रहणे-आत्मसात्करणे एकत्वपरिणामापादने समर्थम् । एवं व कर्मशरीरेण पुद्गलानां यद् ग्रहणं गृहीतिस्तत्कृतो बन्ध इति भावनीयं भवति ॥ ३ ॥ मा०-स पुनश्चतुर्विधः बी०-स पुनश्चतुर्विध इत्यनेनोत्तरसूत्रसम्बन्धं कथयति लक्षणविधानाभ्याम् । जीवादिपदार्थसप्तकव्याख्या प्रस्तुता, तत्र लक्षणतः प्रतिपादितो बन्धः । सम्प्रति लक्षितस्प विधान पाच्यम् । अतः स एष उक्तलक्षणको बन्ध एकरूपोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादपति, अवस्थाभेदाद् वा, यथा पृथग्जनः क्रौर्यनीचैस्त्वलोमादिभेदानानात्वं प्रतिपद्यते तद्वद पन्योऽपीति । पुनःशब्दो बन्धं विशिनाष्टि-द्रव्यभावभेदे सति भावपन्ध इति । चतस्रो विधा यस्य स चतुर्विधः-चतुःप्रकारः । तत्प्रकारनिरूपणायेदमाहबन्धस्य विधान- सूत्रम्-प्रकृतिस्थित्यनुभावप्रदेशास्तद्विधयः ॥८-४॥ टी०-प्रकृत्यादयः कृतद्वन्द्वाः भवनविभक्त्या निर्दिष्टाः, तत्र प्रकृतिमाल कारणं प्रत्यादीनां मृदिव घटादिभेदांनामेकरूपपुद्गलग्रहणम् , अतः प्रक्रियन्तेऽस्य सकाशासाधनता दिति अकर्तरीत्यनुवृत्तेरपादानसाधना प्रकृतिः । स्वभाववचनो पा तु' इति ग-पाठः। ३ 'एकलोली' इति ब-पाठः। ३ 'विभतमादिनिर्दिधाति ग-पा 'मेदा भागैक ' इति ग-पाठः । चतुष्टयम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy