________________
८३
सूत्र १३]
स्वोपज्ञभाष्य-टीकालङ्कृतम् विरतियुक्तो व्रती भवति, न शल्यवानिति-शल्यवतो तित्वं नास्ति इति सूत्रार्थः । न चात्र विकल्पः समुच्चयो वा वाक्यार्थः। विकल्पस्तावन्न भवति-निःशल्यो वा व्रती वेति । यतः समा
नफलानां विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत् , अभिधेयाभेदश्वानयोर्नि:वाक्याथविचारः शल्यव्रतिशब्दयोरतो न विकल्पः। नापि समुच्चयः, समुच्चये हि कालभेदो दृश्यते । अहरहनीयमान इत्यादौ तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले व्रती स्यात् । अनिष्टं चैतत् । इष्यते चैककालेन तदुभयम् , अतोऽङ्गाङ्गिभावोत्राश्रीयते । निःशल्यताऽङ्गम् , अङ्गी व्रतीति । वाक्यार्थश्वायम्-न हिंसादिविरमणमात्रसम्बन्धाद् व्रतीति, किं तर्हि ? शल्यापगमे सति व्रतसम्बन्धत्वाद् व्रती, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमानित्यभिप्रायः । प्रधानानुविधायी च गुणो भवतीत्यप्रधानमङ्गी व्रती, निःशल्यतागुणो प्रधानमिति । तस्मादङ्गाङ्गिभावाभ्युपगमाददोष इति । आह च
"निःशल्यस्यैव पुनः, सर्व व्रतमिष्यतेऽर्हता लोके । ____ उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥ १॥"-आर्या एनमेवार्थ भाष्येण प्रतिपादयति
भा०-मायानिदानमिथ्यादर्शनशल्यस्त्रिाभिर्वियुक्तो निःशल्यो व्रती भव. तिव्रतान्यस्य सन्तीति व्रती। तदेवं निःशल्यो व्रतवान् व्रती भवतीति ॥ १३ ॥
टी०-मायेत्यादिना । माया शाख्यम् उपधिः छद्म कषायविशेषः । शल्यशब्दः प्रत्येकमभिसम्बध्यते-मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति । मिमीते परानिति माया, स्वेन शाख्येन परेषां सारासारप्रमाणमादत्त इति इयन्त एत इति सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः । निदायते-लूयतेऽनेनेति निदान-अध्यवसाय विशेषः-देवेश्वरचक्रवर्तिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतमहामोहपाशसंभृतभूरितपाश्चिन्तापरिखेदितमानसोऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदानी लुनाति-क्षुद्रत्वाच्छिनत्ति मौक्यं सुखमिति । तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानम् , अतिभूरिभूतोपमर्दनाद् बहारम्भपरिग्रहत्वादिदोषोपपत्तेश्चेति । तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमभिगृहीतानभिगृहीतसन्देहभेदात् त्रिधा । तदेव शल्यं व्याघ्राग्निविपसमुद्रव्याधिकुपितनृपतिशक्रवर्गादप्यधिकभयकारि,जन्मान्तरशतसहस्रेष्वागामिष्वविच्छिन्नदुःखसन्तानकसङ्कटप्रपातकारित्वात् , संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमार्जवंजवीभावविधायि गूढकर्मग्रन्थिविजृम्भमाणदुश्चिकित्सकविपाकमात्मसात्करोति सर्वशल्यातिशायि मिथ्यादर्शनशल्यम् , एवमे
१नयमान ' इति ङ-पाठः । २ 'सम्बन्धात् ' इति ङ-पाठः । ३ ' माजवं जवीभाव. ' इति क-ख-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org