________________
८२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ७ काक्षा अर्जनमतिपरिणामाविच्छेदः। गृध्यतीति गोय॑म् । पचाद्यन् । ग| गृद्ध इत्येकोऽर्थः । यथाऽऽमिषार्थी गृद्धो दूरत एवालोक्य चक्षुषा संपतति एवं लोभकपायनिनो यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किञ्चिदासादयति । अतो गृद्धस्य भावः कर्म वा गाय॑म् । मूर्छा प्राग व्याख्यातैव । अर्थादन्योऽर्थोऽर्थान्तरम् , न अर्थान्तरं अनर्थान्तरम् । सर्व एवायमेवमनर्थकारको लोभकषायकलिविजृम्भते, न कश्चिद् भेद इति ॥ १२ ॥
भा०–अत्राह-गृह्णीमस्तावद् व्रतानि। अथ व्रती क इति। अत्रोच्यते
टी०-अत्राहेत्यादिना सम्बन्धमुपपादयति । अत्र-अहिंसादिलक्षणपरिसमास्यवसरे पर आह-गृह्णीमस्तावदित्यादि । गृह्णीम इत्यवगच्छामः । इह हिंसादिविरतयो व्रतानीति । तावच्छब्दः क्रमावद्योतनार्थः । क्रमश्वायम्-प्राग व्रतपरिज्ञानं, पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वम् । अथ(च) प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति सन्दिहानस्य प्रश्नः ॥ ननु च यस्योक्तलक्षणानि व्रतानि सन्ति स व्रती, किमास्पदः सन्देहः ? उच्यते-विशिष्ट एव सम्बन्धे प्रतित्वम् । नात्र मत्वर्थीयः सम्बन्धसामान्यमात्रविवक्षायाम् । किं तर्हि १, [किं]विशिष्टस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम् । तथाचाह
"भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने ।
संसर्गेऽस्तिविवक्षायां, भवन्ति मतुवादयः ॥ १॥" इति प्रशंसायामिनिः प्रत्ययो भूमार्थेऽतिशायने वा। तत्र प्रशंसाथै मिथ्यादर्शननिदानमा
__ याशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम् , व्रतवतिनो
अतिशायनार्थेऽपि अयमेव मिथ्यादर्शनाद्यपगमात् प्रकृष्टस्य सम्बन्धिनो सम्बन्धः
व्रताभिसम्बन्धाद् व्रतित्वम् , भूमार्थेऽपि पूर्वोक्तभावनाभिः स्थिरीकृत चेतसोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्धया निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्यप्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेखलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्यशून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सनिवेश्य आचार्यः अत्रोच्यत इत्याह ।
सूत्रम्-निःशल्यो व्रती ॥७-१३ ॥ टी-शलतीति शल्यम् । औणादिको यप्रत्ययः । अन्तर्भिनत्ति कायादि, तचावतिठमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरिणः, तद्वन्मायानिदानमिथ्यात्वानि अन्तगैतानि वर्तमानानि संयमस्वरूपभेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं झानावरणवीर्यहानि च विदधतीत्येतत् शल्यानीव शल्यानि । निष्क्रान्तः शल्येभ्यो निःशल्यः प्राणातिपातादि
१'गार्धः' इति ङ-पाठः । २ इदं पद्यं दृश्यसे सिद्धान्तकौमुद्यां ( पा० भ० ५, पा. २, सू. १४)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org