________________
तच्चार्थाधिगमसूत्रम्
[ अध्यायः ७
भिर्मायादिशल्यैस्त्रिभिरिति त्रीण्येव शल्यानि तैर्वियुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निः शल्यो व्रती भवतीति । तदेतदनेन प्रतिपादयति - अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जनादिभावतः सम्पूर्णत्रतित्वमिति । व्रतं विशुद्धेव भाविन्यन्तर्विशुद्धिरिति ॥ ननु च कषायाः कोपादयः सर्व एव सशल्यं मायामेकां निःकृष्य किमिति शल्यतया नियम्यत इति १ । उच्यते - एषा हि लब्धात्मलाभा तिरोधाय कोपांदीन् ततोऽप्यात्मसामर्थ्येन वर्तते भुजङ्गीवोपचितविषा छलशतैर्निर्दयं दशति तथा नास्याः कश्चित् साधुवर्गाते सुकुशलोऽपि विषवेगं निरुणद्धि, अतः सकलदोषजातप्रच्छादननिपुणा कुलटेव मायैव शल्यं, न शेषाः कषाया इति प्रधानत्वात् तन्मूलत्वाच्च मायाशल्यग्रहणम् । अतः शल्यरहितो व्रतीति स्फुटमिदम् । आह च
८४
46
निःशल्यस्यैव पुनः, सर्वं व्रतमिष्यते लोके । उपहन्यते व्रतं खलु, निदानमिथ्यात्वमायाभिः ॥ १ ॥
"
निःशल्यतापूर्वकं व्रतित्वमिति प्रदर्शयन्नाह – व्रतान्यस्य सन्तीति व्रती । व्रतानि - हिंसाविरमणादीनि तानि, व्रतित्यमनुवते निःशल्यता आधार इति प्रागभिहितं भूमप्रशंसातिशायनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना भाष्येण निगमयति प्रकृतमर्थम् - निःशल्यो व्रतवान् व्रती भवतीति । निःशल्यस्यैव व्रतित्वं न सशल्यस्येति । उक्तमप्यर्थं भूय आदराभिधानार्थमभिधत्ते मतुबिनोश्च समावेशार्थं व्रती व्रतवानित्ये कोऽर्थ इति ॥ १३ ॥
1
सूत्रसम्बन्ध मुक्तक एव किमेष व्रती व्यपगतशल्यत्रयो हिंसाद्यभावात् यथोक्तक्रियासमूह विजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्व एवागारसम्बन्धेष्वतिनिवृत्तौत्सुक्यः प्रतिज्ञायते, उताविरतोऽपि सर्वतः कश्चिद् गृही निश्चीयत इति १ । अत्रोच्यते - सामान्येन तिनो लक्षणमभिधाय पामेवाहिंसादीनां सकलविरतिविशेषादधिकृतो द्वेधा भवति
Jain Education International
सूत्रम् - अगार्यनगारश्च ॥ ७–१४ ॥
टी० - अगारं - वेश्म तदुपलक्षणमारम्भपरिग्रहवत्तायाः, आरम्भः सूनापञ्चकं पृथिव्यादिजीवकायोपमर्दहेतुः, परिग्रहथेतनाचेतनो द्विपदचतुष्पदादिर्धान्यहिरण्यकनकमणिमुक्ताप्रवालादिः । एवं द्वयमध्यगारशब्देनोपलक्ष्यते । तदेतावारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति वा जाताशंसस्यापरित्यक्ततत्सम्बन्धस्य सर्वोऽप्यगारी तदभिसम्वन्धाद गृहस्थ इत्यर्थः । परित्यक्तारम्भपरिग्रहो भवेत् तद्विपरीतोऽनगारः - प्रतिपन्नमूलोत्तरगुणकलापः । चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषितमिति । अ१' अन्तर्विशुद्धेश्व' इति ङ-पाठः । २ ' कोपात् सतोऽपि ' इति ङ-पाठः । ३ ' तथाप्यद्धा' इति ड-पाठः । ४' वति निःशल्य आधार' इति क ख पाठः ।
For Personal & Private Use Only
www.jainelibrary.org