SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सूत्र १४] स्वोपज्ञभाष्य टीकालङ्कृतम् गारिणस्तावद् द्विविधाः-सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाच, अपरे सम्यग्दर्शनमात्रभाजो वक्ष्यमाणाः षइविकल्पाः, सम्यक्त्वोत्तरगुणप्रतिपत्ती चाष्टौ विकल्पाः । तथा द्वात्रिंशद् विकल्पाः। तत्र ये गृहीताणुव्रतास्तैरणुव्रतानि पभिः अगारिणां भेदाः प्रकारैरात्तानि-द्विविधं त्रिविधेन, द्विविधं द्विविधेन, द्विविधमेकविधेन, एकविधं त्रिविधेन, एकविधं द्विविधेन, एकविधमेकविधेनेति एकैकस्मिन्नणुव्रते षड् विकल्पाः । षट् पश्चकास्त्रिंशत् प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् सम्यग्दर्शनेन सह द्वात्रिंशत् ॥ ननु च नव विकल्पास्त्रिविधं त्रिविधेनेत्यादयः सप्तचत्वारिंशदुत्तरशतभेदनिपत्तेः ? सत्यं, सम्भवन्ति साधोः, न त्वगारिणः, सर्वसावधयोगप्रत्याख्यानप्रस्तावाभिधानाद्, विशिष्टविषयं तत् , सर्वसावधव्यापारप्रत्याख्यानं अनुमतेःसम्भवान्नास्ति गेहिनः, तत्पूर्वप्रयुक्तसावधकारम्भानुमतिमपहायैवासौ शेषं प्रत्याचष्टे इति । अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः-द्विविधं त्रिविधेनेत्यादि । द्विविधमिति न करोमि न कारयामि । त्रिविधेनेति मनोवाक्कायत्रयेण । एवं शेषविकल्पा अपि भाव्याः । त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमितीत्युक्तं नियुक्तिकारेण ॥ ननु च भगवत्यादावागमे--त्रिविधं त्रिविधेनेत्यपि विकल्पोऽस्ति प्रत्याख्यानमगारिणो भगवतीश्रुतप्रतिबद्धं च तदेव तनियुक्तिकारमतविघातकारि। उच्यते-नास्ति विधातः, उत्सर्गापवादद्वारेण प्रवृत्तेः । द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्यागारिण एभिः पनिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमापाद्यते, कचिद् विषये यः किल प्रविव्रजिषुः प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः । अथवाऽल्पाल्पं विशेष्य किश्चिद् वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षीत स्वयम्भूमणमत्स्यादिकमेवमप्युपपद्यते स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति ॥ ननु च नियुक्तिकारेण स्थूलप्राणातिपातादिविषयत्वेनोपन्यस्तः (किमिति) त्रि(द्वि)विधं त्रिविधेनेत्यादिर्विकल्पः । सत्यमेतत् , उत्सर्ग एव बहुलप्रसिद्धत्वानियुक्तिकारेणावाचि । यत् पुनः कचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठ समाचारानुपाति तन्त्रोक्तं, द्विविधमूत्रेषु च विविधमेव भूयसा रुध्यत इति न कश्चिद् दोषः ॥ प्रकृतमुच्यते । भूयोऽगारिणां भेदाः "सोलॅस चेव सहस्सा, अहेव सया हवंति अहहिया । एसो उवासयाणं, वयगहणविहा समासेण ॥१॥"-आयों -आवश्यकवृत्ती १ श्रीभद्रबाहुस्वामिना। २ 'पालनाय' इति ङ-पाठः । ३ ' चक्षते ' इति ङ-पाठः । ४ छाया षोडश चैव सहस्राणि अष्टैव शतानि भवन्ति अष्टाधिकानि । एष उपासकानां व्रतग्रहणविधिः समासेन ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004023
Book TitleTattvarthadhigam Sutram Part 02
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages396
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy