________________
श्रावकश्रमण
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ७ अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पञ्चधा गच्छवासिनः
पुनः पुरुषाः, साध्व्योऽपि प्रवर्तिन्यादिभेदात् पञ्चधैव सदा च गच्छवाअनगारभेदाः
गारभदाः सिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिप्रतिमाप्रतिपअकादयः । अत्र गच्छवास्यादिषु नास्ति व्रतभेदः । सामाचारीकृतस्तु महान् विशेषोऽस्तीति सदाश्रयो भेदः सूत्रकारेणाविवक्षित इति । अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वन्नाह
भा०-स एष व्रती द्विविधो भवतीति-अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४ ॥
टी०–स एष व्रतीत्यादि । अनन्तरसूत्रार्थेन सहामुं भूत्रार्थमनुसन्धत्ते । योऽयमन. न्तरसूत्रे निःशल्यो व्रतीत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति । मौलभेदद्वयनिर्दिदिक्षया चाह–अगारी अनगारश्चेति । अगारमस्यास्तीत्यगारी, परिग्रहारम्भवान् गृहस्थ इत्यर्थः । अविद्यमानोऽगारोऽनगारः, परित्यक्तारम्भपरिग्रह इत्यर्थः । एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः । अभ्यु
पेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनाशब्दार्थः
मगारिणां च सामाचारी शृणोतीति श्रावकः । श्राम्यतीति श्रमणः । "कृत्य
ल्युटो बहुलं" (पा० अ०३,पा०३, मू० ११३) इति वचनात् कर्तरि ल्युट । श्राम्यति-तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् खाध्यायादिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति । एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यामगारिसामान्यं अनगारिसामान्यं च व्यवच्छिन्नं दर्शितमिति ॥ १४ ॥
अनाहेत्यादिना सम्बध्नातिभा०-अत्राह-कोऽनयोः प्रतिविशेष इति ? । अत्रोच्यते
टी--अगार्यनगारश्च व्रती भवतीत्युक्ते अत्र परः प्रश्नयति कोऽनयोरगार्यनगारिणोतिनोः प्रतिविशेषो-वृत्तिविशेष इति । प्रतिविशेषो भेद इत्यर्थः । आचार्यस्तु तं विशेषमभिधातुकामः अत्रोच्यते इत्याह । योऽनयोविशेषः सोऽभिधीयते--
सूत्रम्-अणुव्रतोऽगारी॥७-१५॥ टी-महाव्रतापेक्षया अणु स्तोकं अल्पं देश इति पर्यायाः । महाव्रतानि सर्वपापभेदविरतिलक्षणानि । सवेस्मात् प्राणातिपातात् विरमामीत्यादि । अयं तु न सर्वतो विरतिमातिष्ठते,
१ 'भवति ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org